28 shlokas
- 1
कर्मणां युगपद्भावस्तन्त्रम्
karmaṇāṃ yugapadbhāvastantram
- 2
शक्यपुरुषार्थकृतत्वैकार्थसमवायश्रुतिभ्यः
śakyapuruṣārthakṛtatvaikārthasamavāyaśrutibhyaḥ
- 3
फलकर्मदेशकालद्रव्यदेवतागुणसामान्ये
phalakarmadeśakāladravyadevatāguṇasāmānye
- 4
तद्भेदे भेदः
tadbhede bhedaḥ
- 5
देशकालौ विरोधे
deśakālau virodhe
- 6
न कृत्स्नोपदेशात्
na kṛtsnopadeśāt
- 7
अहर्गणे सुब्रह्मण्यायाः सर्वोपलक्षणं प्रकृतिवत्
ahargaṇe subrahmaṇyāyāḥ sarvopalakṣaṇaṃ prakṛtivat
- 8
तन्त्रकालकर्म प्रत्यहमविधानात्
tantrakālakarma pratyahamavidhānāt
- 9
एकद्रव्ये कर्मावृत्तौ सकृन्मन्त्रवचनं कृतत्वात्
ekadravye karmāvṛttau sakṛnmantravacanaṃ kṛtatvāt
- 10
न ग्रहणलवनस्तरणाज्यग्रहणेषु तु
na grahaṇalavanastaraṇājyagrahaṇeṣu tu
- 11
वचनाद् आज्ये
vacanād ājye
- 12
मुष्टौ चोत्तमे
muṣṭau cottame
- 13
स्वप्ननदीतरणाववर्षणामेध्यदर्शनप्रयाणेषु तु सकृत्कालद्रव्यैकार्थत्वात्
svapnanadītaraṇāvavarṣaṇāmedhyadarśanaprayāṇeṣu tu sakṛtkāladravyaikārthatvāt
- 14
न निमित्तभेदात्
na nimittabhedāt
- 15
अप्रधानकालं सकृद् असंनिपातात्
apradhānakālaṃ sakṛd asaṃnipātāt
- 16
यूपः
yūpaḥ
- 17
स्वरुश्च संस्थावचनात्
svaruśca saṃsthāvacanāt
- 18
तन्निर्वृत्तेश्च
tannirvṛtteśca
- 19
कर्मणि पुरुषाणाम्
karmaṇi puruṣāṇām
- 20
प्रधानं स्वामी फलयोगात्
pradhānaṃ svāmī phalayogāt
- 21
पुरुषयोगिमन्त्रसंस्कारयोस्त्यागे सामर्थ्यात्
puruṣayogimantrasaṃskārayostyāge sāmarthyāt
- 22
वचनाद् अन्यत्
vacanād anyat
- 23
शेषम् इतरे यथाख्यम्
śeṣam itare yathākhyam
- 24
उपवीतिनः
upavītinaḥ
- 25
प्राञ्च्य् उदग्वा
prāñcy udagvā
- 26
आवृत्तिसामन्तेषु प्रदक्षिणम्
āvṛttisāmanteṣu pradakṣiṇam
- 27
विपर्यस्य पित्र्येषु तु सकृद्दक्षिणा च
viparyasya pitryeṣu tu sakṛddakṣiṇā ca
- 28
प्रधानद्रव्यव्यापत्तौ साङ्गावृत्तिस्तदादेशात्
pradhānadravyavyāpattau sāṅgāvṛttistadādeśāt

