17 shlokas
- 1
कर्मणाम् आनुपूर्व्यं न युगपद्भावात्
karmaṇām ānupūrvyaṃ na yugapadbhāvāt
- 2
अर्थनिर्वृत्तेश्च
arthanirvṛtteśca
- 3
स्याद्वानुपूर्व्यनियमः श्रुत्यर्थक्रमेभ्यः
syādvānupūrvyaniyamaḥ śrutyarthakramebhyaḥ
- 4
प्राकृतं च विकृतौ
prākṛtaṃ ca vikṛtau
- 5
विरोधे ऽर्थस्तत्परत्वात्
virodhe 'rthastatparatvāt
- 6
श्रुतिः क्रमाद् आनुमानिकत्वात्
śrutiḥ kramād ānumānikatvāt
- 7
मन्त्रचोदनयोर्मन्त्रबलं प्रयोगित्वात्
mantracodanayormantrabalaṃ prayogitvāt
- 8
न समत्वात्
na samatvāt
- 9
गुणानां तु भूयस्त्वात्
guṇānāṃ tu bhūyastvāt
- 10
तुल्यसमवाये सामान्यपूर्वम् आनुपूर्व्ययोगात्
tulyasamavāye sāmānyapūrvam ānupūrvyayogāt
- 11
नैककर्मणि सम्बन्धात्
naikakarmaṇi sambandhāt
- 12
ग्रहणसादनावदानप्रदानेषु तु वचनात्
grahaṇasādanāvadānapradāneṣu tu vacanāt
- 13
न द्रव्यभेदे गुणयोगाद् इति वात्स्यः
na dravyabhede guṇayogād iti vātsyaḥ
- 14
प्रवृत्ते नियतं दोषविशेषात्
pravṛtte niyataṃ doṣaviśeṣāt
- 15
षोडशिनि त्व् आनुपूर्व्यभूयस्त्वात्
ṣoḍaśini tv ānupūrvyabhūyastvāt
- 16
अनियमः फलसंयुक्तेषु
aniyamaḥ phalasaṃyukteṣu
- 17
क्रमो विध्यर्थः कर्मण्य् असम्भवात्
kramo vidhyarthaḥ karmaṇy asambhavāt

