23 shlokas
- 1
यज्ञं व्याख्यास्यामः
yajñaṃ vyākhyāsyāmaḥ
- 2
द्रव्यं देवता त्यागः
dravyaṃ devatā tyāgaḥ
- 3
तदङ्गम् इतरत्समभिव्याहारप्रकरणाभ्याम्
tadaṅgam itaratsamabhivyāhāraprakaraṇābhyām
- 4
यजतयश्चाफलयुक्तास्तदङ्गम्
yajatayaścāphalayuktāstadaṅgam
- 5
यजतिजुहोतीनां को विशेषः
yajatijuhotīnāṃ ko viśeṣaḥ
- 6
तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यवन्तो यजतयः
tiṣṭhaddhomā vaṣaṭkārapradānā yājyāpuronuvākyavanto yajatayaḥ
- 7
उपविष्टहोमाः स्वाहाकारप्रदाना जुहोतयः
upaviṣṭahomāḥ svāhākārapradānā juhotayaḥ
- 8
ब्राह्मणा ऋत्विजो भक्षप्रतिषेधाद् इतरयोः
brāhmaṇā ṛtvijo bhakṣapratiṣedhād itarayoḥ
- 9
दर्शनाच्च
darśanācca
- 10
फलयुक्तानाम् आरम्भे याथाकामी फलार्थित्वात्
phalayuktānām ārambhe yāthākāmī phalārthitvāt
- 11
न नियमनिमित्ताग्निहोत्रदर्शपूर्णमासदाक्षायणाग्रयणपशुषु प्रवृत्तेः
na niyamanimittāgnihotradarśapūrṇamāsadākṣāyaṇāgrayaṇapaśuṣu pravṛtteḥ
- 12
सोमे चैके
some caike
- 13
चातुर्मास्येषु चर्तुमुखश्रुतेः
cāturmāsyeṣu cartumukhaśruteḥ
- 14
नियतसहपाठात्
niyatasahapāṭhāt
- 15
दर्शनाच्च
darśanācca
- 16
नोत्सर्गयोगात्
notsargayogāt
- 17
स्यात्त्रिंशद्वत्
syāttriṃśadvat
- 18
विगुणे फलनिर्वृत्तिर् अङ्गप्रधानभेदात्
viguṇe phalanirvṛttir aṅgapradhānabhedāt
- 19
प्रायश्चित्तविधानाच्च
prāyaścittavidhānācca
- 20
तथा च दृष्टम्
tathā ca dṛṣṭam
- 21
न श्रुतिलक्षणत्वात्
na śrutilakṣaṇatvāt
- 22
प्रायश्चित्तं तत्कालम्
prāyaścittaṃ tatkālam
- 23
दृष्टे तत्परिमाणम्
dṛṣṭe tatparimāṇam

