19 shlokas
- 1
चोदिताभावे ऽनारम्भस्तत्सिद्धित्वात्तस्य
coditābhāve 'nārambhastatsiddhitvāttasya
- 2
नियते सामान्यतः प्रतिनिधिः स्यात्
niyate sāmānyataḥ pratinidhiḥ syāt
- 3
आरम्भान्नियमः
ārambhānniyamaḥ
- 4
दोषश्चासमाप्तौ स्यात्सामान्यात्
doṣaścāsamāptau syātsāmānyāt
- 5
दर्शनाच्च
darśanācca
- 6
अन्यार्थं दर्शनं न पुनर्ग्रहणात्
anyārthaṃ darśanaṃ na punargrahaṇāt
- 7
अन्यार्थं पुनर्ग्रहणम्
anyārthaṃ punargrahaṇam
- 8
व्रते प्रसङ्गो न नियमशब्दात्
vrate prasaṅgo na niyamaśabdāt
- 9
शब्दे ऽविप्रतिपत्तिः
śabde 'vipratipattiḥ
- 10
सोमेन जात्यभावात्
somena jātyabhāvāt
- 11
आज्ये चादर्शनात्
ājye cādarśanāt
- 12
पशौ मन्त्रवर्णात्
paśau mantravarṇāt
- 13
श्रुतेश्च
śruteśca
- 14
विकल्पे प्रवृत्तं कर्मान्तरत्वात्
vikalpe pravṛttaṃ karmāntaratvāt
- 15
प्रतिनिधौ तत्कालात्
pratinidhau tatkālāt
- 16
अर्थद्रव्यविरोधे ऽर्थसामान्यं तत्परत्वात्
arthadravyavirodhe 'rthasāmānyaṃ tatparatvāt
- 17
गुणद्रव्ययोर्द्रव्यं प्रधानयोगात्
guṇadravyayordravyaṃ pradhānayogāt
- 18
न समत्वात्
na samatvāt
- 19
गुणानुग्रहात्
guṇānugrahāt

