27 shlokas
- 1
अवत्तनाशे ऽन्यद्गुणानुग्रहात्
avattanāśe 'nyadguṇānugrahāt
- 2
न पूर्वशेषात्
na pūrvaśeṣāt
- 3
अचोदितत्वाच्च
acoditatvācca
- 4
स्विष्टकृद्वद् आनुपूर्व्ययोगात्
sviṣṭakṛdvad ānupūrvyayogāt
- 5
गुणहानौ तु शेषभावात्
guṇahānau tu śeṣabhāvāt
- 6
न देवताग्निशब्दक्रियाः परार्थत्वात्
na devatāgniśabdakriyāḥ parārthatvāt
- 7
कामं देवताम्
kāmaṃ devatām
- 8
प्रतिषिद्धं प्रत्यवायात्
pratiṣiddhaṃ pratyavāyāt
- 9
स्वामी फलयोगात्
svāmī phalayogāt
- 10
गुणेषु प्रतिनिधिः परार्थत्वात्
guṇeṣu pratinidhiḥ parārthatvāt
- 11
सत्त्रिषु तु श्रुतेः
sattriṣu tu śruteḥ
- 12
स तद्धर्मा कर्मयोगात्
sa taddharmā karmayogāt
- 13
सत्त्राणि ब्राह्मणानाम् ऋत्विक्श्रुतेः
sattrāṇi brāhmaṇānām ṛtvikśruteḥ
- 14
एककल्पानाम् अवैगुण्यात्
ekakalpānām avaiguṇyāt
- 15
न परार्थत्वात्
na parārthatvāt
- 16
वैश्यराजन्ययोर्गार्हपते
vaiśyarājanyayorgārhapate
- 17
सहस्रसंवत्सरम् अमनुष्याणाम् असम्भवात्
sahasrasaṃvatsaram amanuṣyāṇām asambhavāt
- 18
स्याद्देहानित्यत्वात्
syāddehānityatvāt
- 19
तस्य च कार्यत्वात्
tasya ca kāryatvāt
- 20
नासम्भवात्
nāsambhavāt
- 21
शास्त्रसम्भवाद् इति भारद्वाजः
śāstrasambhavād iti bhāradvājaḥ
- 22
नादर्शनात्
nādarśanāt
- 23
कुलसत्त्रम् इति कार्ष्णाजिनिः
kulasattram iti kārṣṇājiniḥ
- 24
साम्युत्थानम् इति लौगाक्षिः
sāmyutthānam iti laugākṣiḥ
- 25
अह्नां वाशक्यत्वात्
ahnāṃ vāśakyatvāt
- 26
श्रुतिसामर्थ्यात्
śrutisāmarthyāt
- 27
प्रकृत्यनुग्रहाच्च
prakṛtyanugrahācca

