9 shlokas
- 1
ब्राह्मणस्वं हृत्वा मासम् उदके वासश्चतुर्थे काले भोजनं दिवा बहिर् आ स्याद्व्रतान्ते शुक्रं ते अन्यद्यजतं ते अन्यद् इत्य् एतद्गायेत्
brāhmaṇasvaṃ hṛtvā māsam udake vāsaścaturthe kāle bhojanaṃ divā bahir ā syādvratānte śukraṃ te anyadyajataṃ te anyad ity etadgāyet
- 2
अन्यस्य हृत्वा कृच्छ्रं चरन्न् अयं सहस्रमानव इति द्वितीयम्
anyasya hṛtvā kṛcchraṃ carann ayaṃ sahasramānava iti dvitīyam
- 3
गुरुदारान्हत्वा सुरापकल्पेनाक्रान् इत्य् एतद्गायेत्
gurudārānhatvā surāpakalpenākrān ity etadgāyet
- 4
ब्राह्मणदारान्गत्वा त्रीन्कृच्छ्रांश्चरन्ब्रह्म जज्ञानम् इति पूर्वम्
brāhmaṇadārāngatvā trīnkṛcchrāṃścaranbrahma jajñānam iti pūrvam
- 5
अन्यस्य गत्वा कृच्छ्रं चरन्न् अरण्योर् इत्य् एतत्
anyasya gatvā kṛcchraṃ carann araṇyor ity etat
- 6
शूद्रां गत्वा त्रिरात्रम् उपवसन्न् इडाम् अग्न इत्य् एतत्
śūdrāṃ gatvā trirātram upavasann iḍām agna ity etat
- 7
अकाले दारान् उपेत्य त्रीन्प्राणायामान् आयम्य कयानीयाद्वितीयम् आवर्तयेत्
akāle dārān upetya trīnprāṇāyāmān āyamya kayānīyādvitīyam āvartayet
- 8
ब्राह्मणाद्वार्धुषिं हृत्वा त्रीन्कृच्छ्रांश्चरन्ब्रह्म जज्ञानम् इत्य् उत्तरम्
brāhmaṇādvārdhuṣiṃ hṛtvā trīnkṛcchrāṃścaranbrahma jajñānam ity uttaram
- 9
अन्यस्य हृत्वा कृच्छ्रं चरन्न् अनु हि त्वा सुतं सोमेत्य् अनु हि त्वा सुतं सोमेति
anyasya hṛtvā kṛcchraṃ carann anu hi tvā sutaṃ somety anu hi tvā sutaṃ someti

