19 shlokas
- 1
विलयनं मथितं पिण्याकं मधु मांसं च वर्जयेत्
vilayanaṃ mathitaṃ piṇyākaṃ madhu māṃsaṃ ca varjayet
- 2
कृष्णधान्यं शूद्रान्नं ये चान्ये ऽनाश्यसंमताः
kṛṣṇadhānyaṃ śūdrānnaṃ ye cānye 'nāśyasaṃmatāḥ
- 3
अहविष्यम् अनृतं क्रोधं येन च क्रोधयेत्
स्मृतिम् इच्छन्यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि वर्जयेत्
ahaviṣyam anṛtaṃ krodhaṃ yena ca krodhayet
smṛtim icchanyaśo medhāṃ svargaṃ puṣṭiṃ dvādaśaitāni varjayet
- 4
अधोनाभ्युपरिजान्वाच्छाद्य त्रिषवणम् उदकम् उपस्पृशन्न् अनग्निपक्ववृत्तिर् अच्छायोपगः स्थानासनिकः संवत्सरम् एतद्व्रतं चरेत्
एतद् अष्टाचत्वारिंशत्संमितम् इत्य् आचक्षते
adhonābhyuparijānvācchādya triṣavaṇam udakam upaspṛśann anagnipakvavṛttir acchāyopagaḥ sthānāsanikaḥ saṃvatsaram etadvrataṃ caret
etad aṣṭācatvāriṃśatsaṃmitam ity ācakṣate
- 5
नित्यश्राद्धम्
nityaśrāddham
- 6
बहिर्ग्रामाच्छुचयः शुचौ देशे संस्कुर्वन्ति
bahirgrāmācchucayaḥ śucau deśe saṃskurvanti
- 7
तत्र नवानि द्रव्याणि
tatra navāni dravyāṇi
- 8
यैर् अन्नं संस्क्रियते येषु च भुज्यते
yair annaṃ saṃskriyate yeṣu ca bhujyate
- 9
तानि च भुक्तवद्भ्यो दद्यात्
tāni ca bhuktavadbhyo dadyāt
- 10
समुदेतांश्च भोजयेत्
samudetāṃśca bhojayet
- 11
न चातद्गुणायोच्छिष्टं प्रयच्छेत्
na cātadguṇāyocchiṣṭaṃ prayacchet
- 12
एवं संवत्सरम्
evaṃ saṃvatsaram
- 13
तेषाम् उत्तमं लोहेनाजेन कार्यम्
teṣām uttamaṃ lohenājena kāryam
- 14
मानं च कारयेत्प्रतिच्छन्नम्
mānaṃ ca kārayetpraticchannam
- 15
तस्योत्तरार्धे ब्राह्मणान्भोजयेत्
tasyottarārdhe brāhmaṇānbhojayet
- 16
उभयान्पश्यति ब्राह्मणांश्च भुञ्जानान्माने च पितॄन् इत्य् उपदिशन्ति
ubhayānpaśyati brāhmaṇāṃśca bhuñjānānmāne ca pitṝn ity upadiśanti
- 17
कृताकृतम् अत ऊर्ध्वम्
kṛtākṛtam ata ūrdhvam
- 18
श्राद्धेन हि तृप्तिं वेदयन्ते पितरः
śrāddhena hi tṛptiṃ vedayante pitaraḥ
- 19
तिष्येण पुष्टिकामः
tiṣyeṇa puṣṭikāmaḥ

