13 shlokas
- 1
आदित्यानाम् अयने
ādityānām ayane
- 2
त्रिवृत्पञ्चदशाव् अभिप्लवस्तोमौ पूर्वस्मिन्पटले
trivṛtpañcadaśāv abhiplavastomau pūrvasminpaṭale
- 3
पञ्चदशत्रिवृता उत्तरस्मिन्
pañcadaśatrivṛtā uttarasmin
- 4
मध्येपृष्ठ्याश्च मासाः
madhyepṛṣṭhyāśca māsāḥ
- 5
षष्ठे मासि त्रीन् अभिप्लवान् उपेत्य पृष्ठ्यम् उपयन्ति नवरात्रं च
ṣaṣṭhe māsi trīn abhiplavān upetya pṛṣṭhyam upayanti navarātraṃ ca
- 6
अभिजितः स्थाने बृहस्पतिसवम्
abhijitaḥ sthāne bṛhaspatisavam
- 7
इन्द्रस्तोमं विश्वजितः
indrastomaṃ viśvajitaḥ
- 8
पृष्ठ्यम् उपेत्याभिप्लवं च व्यूढच्छन्दसं दशरात्रम्
pṛṣṭhyam upetyābhiplavaṃ ca vyūḍhacchandasaṃ daśarātram
- 9
त्रिवृत्स्तोमम् अग्निष्टोमसंस्थम्
trivṛtstomam agniṣṭomasaṃstham
- 10
उद्भिद्बलभिदौ च
udbhidbalabhidau ca
- 11
मध्येपृष्ठ्यांश्चतुरो मासान् उपेत्य मध्येपृष्ठ्याव् अभिप्लवा उपयन्ति
madhyepṛṣṭhyāṃścaturo māsān upetya madhyepṛṣṭhyāv abhiplavā upayanti
- 12
गोआयुषी
goāyuṣī
- 13
छन्दोमदशाहं च
chandomadaśāhaṃ ca

