11 shlokas
- 1
आश्विनाद् अतिरिक्ते
āśvinād atirikte
- 2
आश्विनीभिः स्तोमम् अतिशंसेत्
āśvinībhiḥ stomam atiśaṃset
- 3
आश्विनी याज्या
āśvinī yājyā
- 4
अस्तुतं चेत्पर्यायैर् अभिव्युच्छेत पञ्चभिः स्तोमैर्होत्रकेभ्यः स्तुवते
astutaṃ cetparyāyair abhivyuccheta pañcabhiḥ stomairhotrakebhyaḥ stuvate
- 5
ते स्तोत्रियानुरूपाञ्छस्त्वोक्थमुखानां जगतीनां च द्वेद्वे शंसेयुः
te stotriyānurūpāñchastvokthamukhānāṃ jagatīnāṃ ca dvedve śaṃseyuḥ
- 6
नित्याः परिधानीयाः
nityāḥ paridhānīyāḥ
- 7
कृत्स्नैर्वा प्रथमैः पर्यायैः
kṛtsnairvā prathamaiḥ paryāyaiḥ
- 8
होत्रे वा प्रथमानां पर्यायाणाम्
hotre vā prathamānāṃ paryāyāṇām
- 9
मैत्रावरुणाय ब्राह्मणाच्छंसिने च मध्यमानाम्
maitrāvaruṇāya brāhmaṇācchaṃsine ca madhyamānām
- 10
अच्छावाकायोत्तमानाम्
acchāvākāyottamānām
- 11
त्रीण्य् आश्विनं षष्टिशतानि
trīṇy āśvinaṃ ṣaṣṭiśatāni

