14 shlokas
- 1
अथापि य एषां न्यायवान्कार्मनामिकः संस्कारः
athāpi ya eṣāṃ nyāyavānkārmanāmikaḥ saṃskāraḥ
- 2
यथा चापि प्रतीतार्थानि स्युस्तथैनान्य् आचक्षीरन्
yathā cāpi pratītārthāni syustathaināny ācakṣīran
- 3
पुरुषं पुरिशय इत्य् आचक्षीरन्
puruṣaṃ puriśaya ity ācakṣīran
- 4
अष्टेत्य् अश्वम्
aṣṭety aśvam
- 5
तर्दनम् इति तृणम्
tardanam iti tṛṇam
- 6
अथापि निष्पन्ने ऽभिव्याहारे ऽभिविचारयन्ति
athāpi niṣpanne 'bhivyāhāre 'bhivicārayanti
- 7
प्रथनात्पृथिवीत्य् आहुः
prathanātpṛthivīty āhuḥ
- 8
क एनाम् अप्रथयिष्यत्
ka enām aprathayiṣyat
- 9
किमाधारश्चेति
kimādhāraśceti
- 10
अथानन्विते ऽर्थे ऽप्रादेशिके विकारे पदेभ्यः पदेतरार्धान्त्संचस्कार शाकटायनः
athānanvite 'rthe 'prādeśike vikāre padebhyaḥ padetarārdhāntsaṃcaskāra śākaṭāyanaḥ
- 11
एतेः कारितं च यकारादिं च अन्तकरणम् अस्तेः शुद्धं च सकारादिं च
eteḥ kāritaṃ ca yakārādiṃ ca antakaraṇam asteḥ śuddhaṃ ca sakārādiṃ ca
- 12
अथापि सत्त्वपूर्वो भाव इत्य् आहुः
athāpi sattvapūrvo bhāva ity āhuḥ
- 13
अपरस्माद्भावात्पूर्वस्य प्रदेशो नोपपद्यत इति
aparasmādbhāvātpūrvasya pradeśo nopapadyata iti
- 14
तद् एतन्नोपपद्यते
tad etannopapadyate

