10 shlokas
- 1
अग्नये वीतये ऽष्टाकपालम्पुरोडाशं निर्वपेद्यस्याग्नयो मिथः संसृज्येरन्
agnaye vītaye 'ṣṭākapālampuroḍāśaṃ nirvapedyasyāgnayo mithaḥ saṃsṛjyeran
- 2
अग्नये विविचये ऽष्टाकपालं पुरोडाशं निर्वपेद्यस्याग्नयो ग्राम्येणाग्निना संसृज्येरन्
agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapedyasyāgnayo grāmyeṇāgninā saṃsṛjyeran
- 3
अग्नये शुचये ऽष्टाकपालं पुरोडाशं निर्वपेद्यस्याग्नयः शावेनाग्निना संसृज्येरन्
agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapedyasyāgnayaḥ śāvenāgninā saṃsṛjyeran
- 4
अग्नये ऽन्नादायान्नपतये ऽष्टाकपालं पुरोडाशं निर्वपेद्यस्याग्नयो दावेनाग्निना संसृज्येरन्
agnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapedyasyāgnayo dāvenāgninā saṃsṛjyeran
- 5
अग्नये ज्योतिष्मते ऽष्टाकपालं पुरोडाशं निर्वपेद्यस्याग्नयो दिव्येनाग्निना संसृज्येरन्
agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvapedyasyāgnayo divyenāgninā saṃsṛjyeran
- 6
अग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपेद्यस्याग्नयो ऽभिप्लवेरन्
agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapedyasyāgnayo 'bhiplaveran
- 7
अग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपेद्य आहवनीयम् अनुगतम् अभ्युद्धरेत्
agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapedya āhavanīyam anugatam abhyuddharet
- 8
अग्नये क्षामवते ऽष्टाकपालं पुरोडाशं निर्वपेद्यस्याहिताग्नेर् अग्निगृहान् अग्निर्दहेद् अनग्निर्गृहान्वा
agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvapedyasyāhitāgner agnigṛhān agnirdahed anagnirgṛhānvā
- 9
अग्नये व्रतपतये ऽष्टाकपालं पुरोडाशं निर्वपेद्य आहिताग्निर् आर्तिजम् अश्रु कुर्यात्ततः प्रवसेत्
agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapedya āhitāgnir ārtijam aśru kuryāttataḥ pravaset
- 10
अग्नये व्रतभृते ऽष्टाकपालं पुरोडाशं निर्वपेत्पर्वणि यो व्रतवेलायाम् अव्रत्यं चरेद् अग्नये तन्तुमते ऽष्टाकपालं पुरोडाशं निर्वपेद्यस्य संततम् अग्निहोत्रं जुहुयुः
agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapetparvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapedyasya saṃtatam agnihotraṃ juhuyuḥ

