3 shlokas
- 1
अत्र दृष्टम् इति लक्ष्यनिर्देशः परिशिष्टं तु लक्षणम्
समानासमानजातीयव्यवच्छेदो लक्षणार्थः
अवयवार्थस्तु विषिण्वन्ति विषयिणम् अवबध्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत्
विषयाः पृथिव्यादयः सुखादयश्चास्मदादीनाम् अविषयाश्च तन्मात्रलक्षणा योगिनाम् ऊर्ध्वस्रोतसां च विषयाः
विषयं विषयं प्रति वर्तत इति प्रतिविषयम् इन्द्रियम्
वृत्तिश्च संनिकर्षः अर्थसंनिकृष्टम् इन्द्रियम् इत्यर्थः
तस्मिन्नध्यवसायस्तदाश्रित इत्यर्थः
अध्यवसायश्च बुद्धिव्यापारो ज्ञानम्
उपात्तविषयाणाम् इन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः सो ऽध्यवसाय इति च वृत्तिर् इति च ज्ञानम् इति चाख्यायते
इदं तत्प्रमाणम्
अनेन यश्चेतनाशक्तेर् अनुग्रहस्तत्फलं प्रमाबोधः
बुद्धितत्त्वं हि प्राकृतत्वाद् अचेतनम् इति तदीयो ऽध्यवसायो ऽप्यचेतनो घटादिवत्
एवं बुद्धितत्त्वस्य सुखादयो ऽपि परिणामभेदा अचेतनाः
पुरुषस्तु सुखाद्यननुषङ्गी चेतनः
सो ऽयं बुद्धितत्त्ववर्तिना ज्ञानसुखादिना तत्प्रतिबिम्बितस्तच्छायापत्त्या ज्ञानसुखादिमान् इव भवतीति तेनानुगृह्यते
चितिच्छायापत्त्या चाचेतनापि बुद्धिस्तदध्यवसायश्च चेतन इव भवतीति
यथा वक्ष्यति
तस्मात्तत्संयोगाद् अचेतनं चेतनावद् इव लिङ्गम्
गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः
atra dṛṣṭam iti lakṣyanirdeśaḥ pariśiṣṭaṃ tu lakṣaṇam
samānāsamānajātīyavyavacchedo lakṣaṇārthaḥ
avayavārthastu viṣiṇvanti viṣayiṇam avabadhnanti svena rūpeṇa nirūpaṇīyaṃ kurvantīti yāvat
viṣayāḥ pṛthivyādayaḥ sukhādayaścāsmadādīnām aviṣayāśca tanmātralakṣaṇā yoginām ūrdhvasrotasāṃ ca viṣayāḥ
viṣayaṃ viṣayaṃ prati vartata iti prativiṣayam indriyam
vṛttiśca saṃnikarṣaḥ arthasaṃnikṛṣṭam indriyam ityarthaḥ
tasminnadhyavasāyastadāśrita ityarthaḥ
adhyavasāyaśca buddhivyāpāro jñānam
upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhestamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate
idaṃ tatpramāṇam
anena yaścetanāśakter anugrahastatphalaṃ pramābodhaḥ
buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat
evaṃ buddhitattvasya sukhādayo 'pi pariṇāmabhedā acetanāḥ
puruṣastu sukhādyananuṣaṅgī cetanaḥ
so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitastacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate
citicchāyāpattyā cācetanāpi buddhistadadhyavasāyaśca cetana iva bhavatīti
yathā vakṣyati
tasmāttatsaṃyogād acetanaṃ cetanāvad iva liṅgam
guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ
- 2
इति
अत्राध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति
संशयस्यानवस्थितग्रहणेनानिश्चितरूपत्वात्
निश्चयो ऽध्यवसाय इत्यनर्थान्तरम्
विषयग्रहणेनासद्विषयं विपर्ययम् अपाकरोति
प्रतिग्रहणेन चेन्द्रियार्थसंनिकर्षसूचनाद् अनुमानस्मृत्यादयः पराकृता भवन्ति
तद् एवं समानासमानजातीयव्यवच्छेदकत्वात्प्रतिविषयाध्यवसाय इति दृष्टस्य सम्पूर्णं लक्षणम्
लक्षणान्तराणि तैर्थिकानां न दूषितानि विस्तरभयाद् इति
नानुमानं प्रमाणम् इति वदता लोकायतिकेनाप्रतिपन्नः संदिग्धो विपर्यस्तो वा पुरुषः प्रतिपाद्यते
न च पुरुषान्तरगता अज्ञानसंदेहविपर्ययाः शक्या अर्वाग्दृशा प्रतिपत्तुं नापि मानान्तरेण तदभावात्
अनवधृताज्ञानसंशयविपर्यासस्तु यं कंचन पुरुषं प्रति वर्तमानो ऽनवधेयवचनतया प्रेक्षावद्भिर् उन्मत्तवद् उपेक्ष्येत
तद् अनेनाज्ञानादयः परपुरुषवर्तिनो ऽभिप्रायभेदाद्वचनाल्लिङ्गाद् अनुमातव्या इत्यकामेनाप्यनुमानम् अभ्युपेयम्
तत्र प्रत्यक्षकार्यत्वाद् अनुमानं प्रत्यक्षाद् अनन्तरं निरूपणीयम्
तत्रापि सामान्यलक्षणपूर्वकत्वाद्विशेषलक्षणस्यानुमानसामान्यं तावल्लक्षयति लिङ्गलिङ्गिपूर्वकम् इति
लिङ्गं व्याप्यं लिङ्गि व्यापकम्
शङ्कितसमारोपितोपाधिनिराकरणेन स्वभावप्रतिबद्धं व्याप्यं येन प्रतिबद्धं तद्व्यापकम्
लिङ्गलिङ्गिग्रहणेन विषयवाचिना विषयिणं प्रत्ययम् उपलक्षयति
धूमादिर्व्याप्यो वह्न्यादिर्व्यापक इति यः प्रत्ययस्तत्पूर्वकम्
लिङ्गिग्रहणं चावर्तनीयम्
तेन लिङ्गम् अस्यास्तीति पक्षधर्मताज्ञानम् अपि दर्शितं भवति
तद्व्याप्यव्यापकपक्षधर्मताज्ञानपूर्वकम् अनुमानम् इत्यनुमानसामान्यलक्षणं लक्षितम्
अनुमानविशेषांस्तन्त्रान्तरे लक्षितान्स्मारयति त्रिविधम् अनुमानम् इति
तत्सामान्यतो लक्षितं विशेषतस्त्रिविधम्
पूर्ववच्छेषवत्सामान्यतोदृष्टं चेति
तत्र प्रथमं तावद्द्विविधम्
वीतम् अवीतं च
अन्वयमुखेन प्रवर्तमानं विधायकं वीतं व्यतिरेकमुखेन प्रवर्तमानं निषेधकम् अवीतम्
iti
atrādhyavasāyagrahaṇena saṃśayaṃ vyavacchinatti
saṃśayasyānavasthitagrahaṇenāniścitarūpatvāt
niścayo 'dhyavasāya ityanarthāntaram
viṣayagrahaṇenāsadviṣayaṃ viparyayam apākaroti
pratigrahaṇena cendriyārthasaṃnikarṣasūcanād anumānasmṛtyādayaḥ parākṛtā bhavanti
tad evaṃ samānāsamānajātīyavyavacchedakatvātprativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam
lakṣaṇāntarāṇi tairthikānāṃ na dūṣitāni vistarabhayād iti
nānumānaṃ pramāṇam iti vadatā lokāyatikenāpratipannaḥ saṃdigdho viparyasto vā puruṣaḥ pratipādyate
na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt
anavadhṛtājñānasaṃśayaviparyāsastu yaṃ kaṃcana puruṣaṃ prati vartamāno 'navadheyavacanatayā prekṣāvadbhir unmattavad upekṣyeta
tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedādvacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam
tatra pratyakṣakāryatvād anumānaṃ pratyakṣād anantaraṃ nirūpaṇīyam
tatrāpi sāmānyalakṣaṇapūrvakatvādviśeṣalakṣaṇasyānumānasāmānyaṃ tāvallakṣayati liṅgaliṅgipūrvakam iti
liṅgaṃ vyāpyaṃ liṅgi vyāpakam
śaṅkitasamāropitopādhinirākaraṇena svabhāvapratibaddhaṃ vyāpyaṃ yena pratibaddhaṃ tadvyāpakam
liṅgaliṅgigrahaṇena viṣayavācinā viṣayiṇaṃ pratyayam upalakṣayati
dhūmādirvyāpyo vahnyādirvyāpaka iti yaḥ pratyayastatpūrvakam
liṅgigrahaṇaṃ cāvartanīyam
tena liṅgam asyāstīti pakṣadharmatājñānam api darśitaṃ bhavati
tadvyāpyavyāpakapakṣadharmatājñānapūrvakam anumānam ityanumānasāmānyalakṣaṇaṃ lakṣitam
anumānaviśeṣāṃstantrāntare lakṣitānsmārayati trividham anumānam iti
tatsāmānyato lakṣitaṃ viśeṣatastrividham
pūrvavaccheṣavatsāmānyatodṛṣṭaṃ ceti
tatra prathamaṃ tāvaddvividham
vītam avītaṃ ca
anvayamukhena pravartamānaṃ vidhāyakaṃ vītaṃ vyatirekamukhena pravartamānaṃ niṣedhakam avītam
- 3
तत्रावीतं शेषवत्
शिष्यते परिशिष्यत इति शेषः
स एव विषयतया यस्यास्त्यनुमानस्य तच्छेषवद्यद् आहुः प्रसक्तप्रतिषेधे ऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्यय इति
अस्य चावीतस्य व्यतिरेकिण उदाहरणम् अग्रे ऽभिधास्यते
वीतं च द्वेधा
दृष्टस्वलक्षणसामान्यविषयं यत्तत्पूर्ववत्
पूर्वं प्रसिद्धं दृष्टस्वलक्षणसामान्यम् इति यावत्
तद् अस्य विषयत्वेनास्त्यनुमानस्येति पूर्ववत्
यथा धूमाद्वह्नित्वसामान्यस्य विशेषः पर्वते ऽनुमीयते तस्य च वह्नित्वसामान्यस्य स्वलक्षणं वह्निविशेषो दृष्टं रसवत्याम्
अपरं च वीतं सामान्यतोदृष्टम् अदृष्टस्वलक्षणसामान्यविषयं यथेन्द्रियविषयम् अनुमानम्
अत्र हि रूपादिज्ञानानां क्रियात्वेन करणवत्त्वम् अनुमीयते
यद्यपि करणत्वसामान्यस्य छिदादौ वाश्यादि स्वलक्षणम् उपलब्धं तथापि यज्जातीयं रूपादिज्ञाने करणत्वम् अनुमीयते तज्जातीयस्य करणत्वस्य न दृष्टं स्वलक्षणं प्रत्यक्षेण
इन्द्रियजातीयं हि तत्करणत्वम्
न चेन्द्रियत्वस्य सामान्यस्य स्वलक्षणं प्रत्यक्षगोचरो ऽर्वाग्दृशां यथा वह्नित्वस्य सामान्यस्य स्वलक्षणं वह्निः
सो ऽयं पूर्ववतः सामान्यतोदृष्टात्सत्य् अपि वीतत्वेन तुल्यत्वे विशेषः
अत्र दृष्टं दर्शनं सामान्यतः सामान्यस्य
सार्वविभक्तिकस्तसिः
अदृष्टस्वलक्षणस्य सामान्यस्य दर्शनम् अनुमानम् इत्यर्थः
सर्वं चैतद् अस्माभिर्न्यायवार्त्तिकतात्पर्यटीकायां व्युत्पादितम् इति नेहोक्तं विस्तरभयाद् इति
प्रयोजकवृद्धशब्दस्य श्रवणसमनन्तरं प्रयोज्यवृद्धस्य प्रवृत्तिहेतुज्ञानानुमानपूर्वकत्वाच्छब्दार्थसंबन्धग्रहस्य स्वार्थसंबन्धज्ञानसहकारिणश्च शब्दस्यार्थप्रत्यायकत्वाद् अनुमानानन्तरं शब्दं लक्षयत्याप्तश्रुतिर् आप्तवचनं त्विति
आप्तवचनम् इति लक्ष्यनिर्देशः शेषं लक्षणम्
आप्ता प्राप्ता युक्तेति यावत्
आप्ता चासौ श्रुतिश्चेत्य् आप्तश्रुतिः
श्रुतिर्वाक्यजनितं वाक्यार्थज्ञानम्
तच्च स्वतःप्रमाणम् अपौरुषेयवेदजनितत्वेन सकलदोषाशङ्काविनिर्मुक्तं युक्तं भवति
एवं वेदमूलस्मृतीतिहासपुराणजनितम् अपि ज्ञानं युक्तम्
आदिविदुषश्च कपिलस्य कल्पादौ कल्पान्तराधीतश्रुतेः स्मरणसंभवः सुप्तप्रबुद्धस्येव पूर्वेद्युर् अवगतानाम् अर्थानाम्
तथा चावट्यजैगीषव्ययोः संवादे भगवान्जैगीषव्यो दशमहाकल्पवर्ति जन्मस्मरणम् आत्मन उवाच दशसु महासर्गेषु विपरिवर्तमानेन मयेत्यादिना संदर्भेण
आप्तवचनेनायुक्ताः शाक्यभिक्षुनिर्ग्रन्थकसंसारमोचकादीनाम् आगमाभासाः पराकृता भवन्ति
अयुक्तत्वं चैतेषां विगानाच्छिन्नमूलत्वात्प्रमाणविरुद्धाभिधानात्कैश्चिद् एव म्लेच्छादिभिः पुरुषापसदैः पशुप्रायैः परिग्रहाद्बोद्धव्यम्
तुशब्देनानुमानाद्व्यवच्छिनत्ति
वाक्यार्थो हि प्रमेयं न च तद्धर्मो वाक्यं येन तत्र लिङ्गं भवेत्
न च वाक्यं वाक्यार्थं बोधयत्संबन्धग्रहम् अपेक्षते
अभिनवकविविरचितस्य वाक्यस्यादृष्टपूर्वस्याननुभूतचरवाक्यार्थबोधकत्वाद् इति
एवं प्रमाणसामान्यलक्षणेषु तद्विशेषलक्षणेषु च सत्सु यानि प्रमाणान्तराण्य् उपमानादीन्य् अभ्युपेयन्ते वादिभिस्तान्युक्तलक्षणेष्वन्तर्भवन्ति
तथा हि
उपमानं तावद्यथा गौस्तथा गवय इति वाक्यम्
तज्जनिता धीर् आगम एव
यो ऽप्ययं गवयशब्दो गोसदृशवाचक इति प्रत्ययः सो ऽप्यनुमानम्
यो हि शब्दो यत्र वृद्धैः प्रयुज्यते सो ऽसति वृत्त्यन्तरे तस्य वाचको यथा गोशब्दो गोत्वस्य
प्रयुज्यते चैष गवयशब्दो गोसदृश इति तस्यैव वाचक इति ज्ञानम् अनुमानम् एव
यत्तु गवयस्य चक्षुःसंनिकृष्टस्य गोसादृश्यज्ञानं तत्प्रत्यक्षम्
अत एव स्मर्यमाणायां गवि गवयसादृश्यज्ञानं प्रत्यक्षम्
न ह्यन्यद्गवि सादृश्यम् अन्यच्च गवये
भूयोऽवयवसामान्ययोगो जात्यन्तरवर्ती जात्यन्तरे सादृश्यमुच्यते
सामान्ययोगश्चैकश्चेद्गवये प्रत्यक्षो गव्यपि तथेति नोपमानस्य प्रमेयान्तरम् अस्ति यत्र प्रमाणं भवेद् इति न प्रमाणान्तरम् उपमानम् इति
एवम् अर्थापत्तिर् अपि न प्रमाणान्तरम्
तथा हि जीवतश्चैत्रस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पनम् अर्थापत्तिर् अभिमता वृद्धानाम्
साप्यनुमानम् एव
यदा खलु सन्न् एकत्र नास्ति तदान्यत्रास्ति यदाव्यापक एकत्रास्ति तदा नान्यत्रेति सुकरः स्वशरीरे व्याप्तिग्रहः
तथा च सतो गृहाभावदर्शनेन लिङ्गेन बहिर्भावदर्शनम् अनुमानम्
न च चैत्रस्य सत्त्वेन गृहाभावः शक्यो ऽज्ञातुं येनासिद्धो गृहाभावो हेतुः स्याद्गृहाभावेन वा सत्त्वम् अपह्नूयते येन सत्त्वम् एवानुपपद्यमानम् आत्मानं न बहिर् अवस्थापयेत्
तथा हि चैत्रस्य गृहासत्त्वेन सत्त्वमात्रं वा विरुध्यते गृहसत्त्वं वा
न तावद्यत्रक्वचनसत्त्वस्यास्ति विरोधो गृहासत्त्वेन भिन्नविषयत्वात्
देशसामान्येन गृहविशेषाक्षेपो ऽपि पाक्षिक इति समानविषयतया विरोध इति चेत्
न
प्रमाणनिश्चितस्य गृहासत्त्वस्य पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षेपयोगात्
नापि प्रमाणनिश्चितो गृहभावः पाक्षिकम् अस्य गृहसत्त्वं प्रतिक्षिपन्सत्त्वम् अपि प्रतिक्षेप्तुं सांशयिकत्वं चापनेतुम् अर्हतीति युक्तम्
गृहावच्छिन्नेन चैत्राभावेन गृहसत्त्वं विरुद्धत्वात्प्रतिक्षिप्यते न तु सत्त्वमात्रं तस्य तत्रौदासीन्यात्
तस्माद्गृहाभावेन सिद्धेन सतो बहिर्भावो ऽनुमीयत इति युक्तम्
एतेन विरुद्धयोः प्रमाणयोर्विषयव्यवस्थयाविरोधापादनम् अर्थापत्तेर्विषय इति निरस्तम् अवच्छिन्नानवच्छिन्नयोर्विरोधाभावात्
उदाहरणान्तराणि चार्थापत्तेर् अनुमाने ऽन्तर्भावनीयानि
तस्मान्न प्रमाणान्तरम् अर्थापत्तिर् इति सिद्धम्
एवम् अभावो ऽपि प्रत्यक्षम् एव
न हि भूतलस्य परिणामविशेषात्कैवल्यलक्षणाद् अन्यो घटाभावो नाम
प्रतिक्षणं परिणामिनो हि सर्व एव भावा ऋते चितिशक्तेः
स च परिणामभेद ऐन्द्रियक इति नास्ति प्रत्यक्षानवरुद्धो विषयो यत्राभावाह्वयं प्रमाणान्तरम् अभ्युपेयम् इति
संभवस्तु यथा खार्यां द्रोणाढकप्रस्थावगमः
स चानुमानम् एव
खारीत्वं हि द्रोणाद्यविनाभूतं प्रतीतं खार्यां द्रोणादिसत्त्वम् अवगमयति
यच्चानिर्दिष्टप्रवक्तृकं प्रवादमात्रम् इति होचुर्वृद्धा इत्यैतिह्यं यथेहवटे यक्षः प्रवसतीति तद् अप्रमाणम् अनिर्दिष्टप्रवक्तृत्वेन सांशयिकत्वात्
आप्तप्रवक्तृत्वनिश्चये त्वागम इत्युपपन्नं त्रिविधं प्रमाणम् इति
एवं तावद्व्यक्ताव्यक्तज्ञलक्षणप्रमेयसिद्ध्यर्थं प्रमाणानि लक्षितानि
तत्र व्यक्तं पृथिव्यादिस्वरूपतः पांसुलपदो ऽपि प्रत्यक्षतः प्रतिपद्यते पूर्ववता चानुमानेन धूमादिदर्शनाद्वह्न्यादीति तद्व्युत्पादनाय मन्दप्रयोजनं शास्त्रम् इति दुरधिगमम् अनेन व्युत्पादनीयम्
तत्र यत्प्रमाणं यत्र शक्तं तद् उक्तलक्षणेभ्यो निष्कृष्य दर्शयति
tatrāvītaṃ śeṣavat
śiṣyate pariśiṣyata iti śeṣaḥ
sa eva viṣayatayā yasyāstyanumānasya taccheṣavadyad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti
asya cāvītasya vyatirekiṇa udāharaṇam agre 'bhidhāsyate
vītaṃ ca dvedhā
dṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yattatpūrvavat
pūrvaṃ prasiddhaṃ dṛṣṭasvalakṣaṇasāmānyam iti yāvat
tad asya viṣayatvenāstyanumānasyeti pūrvavat
yathā dhūmādvahnitvasāmānyasya viśeṣaḥ parvate 'numīyate tasya ca vahnitvasāmānyasya svalakṣaṇaṃ vahniviśeṣo dṛṣṭaṃ rasavatyām
aparaṃ ca vītaṃ sāmānyatodṛṣṭam adṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yathendriyaviṣayam anumānam
atra hi rūpādijñānānāṃ kriyātvena karaṇavattvam anumīyate
yadyapi karaṇatvasāmānyasya chidādau vāśyādi svalakṣaṇam upalabdhaṃ tathāpi yajjātīyaṃ rūpādijñāne karaṇatvam anumīyate tajjātīyasya karaṇatvasya na dṛṣṭaṃ svalakṣaṇaṃ pratyakṣeṇa
indriyajātīyaṃ hi tatkaraṇatvam
na cendriyatvasya sāmānyasya svalakṣaṇaṃ pratyakṣagocaro 'rvāgdṛśāṃ yathā vahnitvasya sāmānyasya svalakṣaṇaṃ vahniḥ
so 'yaṃ pūrvavataḥ sāmānyatodṛṣṭātsaty api vītatvena tulyatve viśeṣaḥ
atra dṛṣṭaṃ darśanaṃ sāmānyataḥ sāmānyasya
sārvavibhaktikastasiḥ
adṛṣṭasvalakṣaṇasya sāmānyasya darśanam anumānam ityarthaḥ
sarvaṃ caitad asmābhirnyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti
prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvācchabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti
āptavacanam iti lakṣyanirdeśaḥ śeṣaṃ lakṣaṇam
āptā prāptā yukteti yāvat
āptā cāsau śrutiścety āptaśrutiḥ
śrutirvākyajanitaṃ vākyārthajñānam
tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati
evaṃ vedamūlasmṛtītihāsapurāṇajanitam api jñānaṃ yuktam
ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām
tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavānjaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa
āptavacanenāyuktāḥ śākyabhikṣunirgranthakasaṃsāramocakādīnām āgamābhāsāḥ parākṛtā bhavanti
ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvātpramāṇaviruddhābhidhānātkaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahādboddhavyam
tuśabdenānumānādvyavacchinatti
vākyārtho hi prameyaṃ na ca taddharmo vākyaṃ yena tatra liṅgaṃ bhavet
na ca vākyaṃ vākyārthaṃ bodhayatsaṃbandhagraham apekṣate
abhinavakaviviracitasya vākyasyādṛṣṭapūrvasyānanubhūtacaravākyārthabodhakatvād iti
evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇy upamānādīny abhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti
tathā hi
upamānaṃ tāvadyathā gaustathā gavaya iti vākyam
tajjanitā dhīr āgama eva
yo 'pyayaṃ gavayaśabdo gosadṛśavācaka iti pratyayaḥ so 'pyanumānam
yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya
prayujyate caiṣa gavayaśabdo gosadṛśa iti tasyaiva vācaka iti jñānam anumānam eva
yattu gavayasya cakṣuḥsaṃnikṛṣṭasya gosādṛśyajñānaṃ tatpratyakṣam
ata eva smaryamāṇāyāṃ gavi gavayasādṛśyajñānaṃ pratyakṣam
na hyanyadgavi sādṛśyam anyacca gavaye
bhūyo'vayavasāmānyayogo jātyantaravartī jātyantare sādṛśyamucyate
sāmānyayogaścaikaścedgavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti
evam arthāpattir api na pramāṇāntaram
tathā hi jīvataścaitrasya gṛhābhāvadarśanena bahirbhāvasyādṛṣṭasya kalpanam arthāpattir abhimatā vṛddhānām
sāpyanumānam eva
yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ
tathā ca sato gṛhābhāvadarśanena liṅgena bahirbhāvadarśanam anumānam
na ca caitrasya sattvena gṛhābhāvaḥ śakyo 'jñātuṃ yenāsiddho gṛhābhāvo hetuḥ syādgṛhābhāvena vā sattvam apahnūyate yena sattvam evānupapadyamānam ātmānaṃ na bahir avasthāpayet
tathā hi caitrasya gṛhāsattvena sattvamātraṃ vā virudhyate gṛhasattvaṃ vā
na tāvadyatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt
deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet
na
pramāṇaniścitasya gṛhāsattvasya pākṣikatayā sāṃśayikena gṛhasattvena pratikṣepayogāt
nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipansattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam
gṛhāvacchinnena caitrābhāvena gṛhasattvaṃ viruddhatvātpratikṣipyate na tu sattvamātraṃ tasya tatraudāsīnyāt
tasmādgṛhābhāvena siddhena sato bahirbhāvo 'numīyata iti yuktam
etena viruddhayoḥ pramāṇayorviṣayavyavasthayāvirodhāpādanam arthāpatterviṣaya iti nirastam avacchinnānavacchinnayorvirodhābhāvāt
udāharaṇāntarāṇi cārthāpatter anumāne 'ntarbhāvanīyāni
tasmānna pramāṇāntaram arthāpattir iti siddham
evam abhāvo 'pi pratyakṣam eva
na hi bhūtalasya pariṇāmaviśeṣātkaivalyalakṣaṇād anyo ghaṭābhāvo nāma
pratikṣaṇaṃ pariṇāmino hi sarva eva bhāvā ṛte citiśakteḥ
sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti
saṃbhavastu yathā khāryāṃ droṇāḍhakaprasthāvagamaḥ
sa cānumānam eva
khārītvaṃ hi droṇādyavinābhūtaṃ pratītaṃ khāryāṃ droṇādisattvam avagamayati
yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocurvṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt
āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti
evaṃ tāvadvyaktāvyaktajñalakṣaṇaprameyasiddhyarthaṃ pramāṇāni lakṣitāni
tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanādvahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam
tatra yatpramāṇaṃ yatra śaktaṃ tad uktalakṣaṇebhyo niṣkṛṣya darśayati

