17 shlokas
- 1
अग्नीषोमौ प्रणेष्यत्सु वेदिम् आक्रामेन्मन्त्रेण
agnīṣomau praṇeṣyatsu vedim ākrāmenmantreṇa
- 2
पश्चिमेनोत्तरवेदिम् उदङ्ङतिक्रम्याक्रमणयजुर्जपेत्
paścimenottaravedim udaṅṅatikramyākramaṇayajurjapet
- 3
चात्वालसमीपे दीक्षितश्चेत्
cātvālasamīpe dīkṣitaścet
- 4
तूष्णीम् अत ऊर्ध्वं वेदेर् आक्रमणम्
tūṣṇīm ata ūrdhvaṃ veder ākramaṇam
- 5
क्रीत्वा राजा येनातिहृतः स्यात्तेन गत्वा तूष्णीम् उपविशेत्
krītvā rājā yenātihṛtaḥ syāttena gatvā tūṣṇīm upaviśet
- 6
राजानं हरेत्य् उक्तः पूर्वेणाग्निम् एकस्मा अतिप्रदाय तान्प्रसव्यं परीत्यादायानुगच्छेद्दक्षिणेन चेद्गतः स्यात्
rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tānprasavyaṃ parītyādāyānugaccheddakṣiṇena cedgataḥ syāt
- 7
उत्तरेण चेद्यथेतं परीत्यादायानुगच्छेत्
uttareṇa cedyathetaṃ parītyādāyānugacchet
- 8
अन्येन चेद्ब्रह्मा व्रजितः स्याद् अन्येन राजा तेनैनं प्रगृह्णीयात्
anyena cedbrahmā vrajitaḥ syād anyena rājā tenainaṃ pragṛhṇīyāt
- 9
एतौ त्वेव ब्रह्मणो गतिकल्पावहरतो ऽपि
etau tveva brahmaṇo gatikalpāvaharato 'pi
- 10
आसीताग्नीध्रीय आहुत्योर्हूयमानयोर् इति धानंजय्यः
āsītāgnīdhrīya āhutyorhūyamānayor iti dhānaṃjayyaḥ
- 11
तिष्ठेदिति शाण्डिल्यः
tiṣṭhediti śāṇḍilyaḥ
- 12
उत्तरेणाग्नीध्रीयं राजानम् आज्यानि च ह्रियमाणान्यनुगच्छेत्
uttareṇāgnīdhrīyaṃ rājānam ājyāni ca hriyamāṇānyanugacchet
- 13
प्रवेशितेषु हविर्धानं पश्चिमेन गत्वासीतेति गौतमः
praveśiteṣu havirdhānaṃ paścimena gatvāsīteti gautamaḥ
- 14
पूर्वेणेति धानंजय्यो दक्षिणस्य द्वारबाहोः पुरस्ताद्यजुषेति
pūrveṇeti dhānaṃjayyo dakṣiṇasya dvārabāhoḥ purastādyajuṣeti
- 15
अग्नीषोमीयवपायां हुतायां यथेतम् उदङ्ङ् अतिक्रम्य चात्वाले मार्जयेत
agnīṣomīyavapāyāṃ hutāyāṃ yathetam udaṅṅ atikramya cātvāle mārjayeta
- 16
एवम् एवापररात्र आज्येषु प्रविष्टेषूपवेशनम्
evam evāpararātra ājyeṣu praviṣṭeṣūpaveśanam
- 17
मार्जनं च
mārjanaṃ ca

