Shatapatha Brahmana (Madhyandina) · Kandika 3 10.5.3.7
10.5.3.7तच्चक्षुः श्रोत्रम् असृजत
तद् इदं श्रोत्रं सृष्टम् आविरबुभूषन्निरुक्ततरं मूर्ततरम्
तद् आत्मानम् अन्वैच्छत्
तत्तपो ऽतप्यत
तत्प्रामूर्छत्
तत्षट्त्रिंशतं सहस्राण्य् अपश्यद् आत्मनो ऽग्नीन् अर्काञ्छ्रोत्रमयाञ्छ्रोत्रचितः
ते श्रोत्रेणैवाधीयन्त
श्रोत्रेणाचीयन्त
श्रोत्रेणैषु ग्रहा अगृह्यन्त
श्रोत्रेणास्तुवत
श्रोत्रेणाशंसन्
यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म श्रोत्रेणैव तेषु तच्छ्रोत्रमयेषु श्रोत्रचित्सु श्रोत्रमयम् अक्रियत
तद्यत्किं चेमानि भूतानि श्रोत्रेण शृण्वन्ति तेषाम् एव सा कृतिस्तान् एवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शंसन्ति
एतावती वै श्रोत्रस्य विभूतिर् एतावती विसृष्टिर् एतावच्छ्रोत्रं षट्त्रिंशत्सहस्राण्य् अग्नयो ऽर्काः
तेषाम् एकैक एव तावान्यावान् असौ पूर्वः
Transliteration
taccakṣuḥ śrotram asṛjata
tad idaṃ śrotraṃ sṛṣṭam āvirabubhūṣanniruktataraṃ mūrtataram
tad ātmānam anvaicchat
tattapo 'tapyata
tatprāmūrchat
tatṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāñchrotramayāñchrotracitaḥ
te śrotreṇaivādhīyanta
śrotreṇācīyanta
śrotreṇaiṣu grahā agṛhyanta
śrotreṇāstuvata
śrotreṇāśaṃsan
yatkiṃ ca yajñe karma kriyate yatkiṃ ca yajñiyaṃ karma śrotreṇaiva teṣu tacchrotramayeṣu śrotracitsu śrotramayam akriyata
tadyatkiṃ cemāni bhūtāni śrotreṇa śṛṇvanti teṣām eva sā kṛtistān evādadhati tāṃścinvanti teṣu grahāngṛhṇanti teṣu stuvate teṣu śaṃsanti
etāvatī vai śrotrasya vibhūtir etāvatī visṛṣṭir etāvacchrotraṃ ṣaṭtriṃśatsahasrāṇy agnayo 'rkāḥ
teṣām ekaika eva tāvānyāvān asau pūrvaḥ
By System Admin
Translation
Draft in progress