Sanskrit

Shadvimsha Brahmana · 5.1 5.1.2

5.1.2

देवा वै स्वर्गकामास्तपो ऽतप्यन्त

तेषां तप्यमानानां रसो ऽजायत

पृथिव्य् अन्तरिक्षं द्यौर् इति

ते ऽभ्यतपन्

तेषां तप्यमानानां रसो ऽजायत

ऋग्वेदः पृथिव्या यजुर्वेदो ऽन्तरिक्षात्सामवेदो ऽमुष्मात्

ते ऽभ्यतपन्

तेषां तप्यमानानां रसो ऽजायत

ऋग्वेदाद्गार्हपत्यो यजुर्वेदाद्दक्षिणाग्निः सामवेदाद् आहवनीयः

ते ऽभ्यतपन्

तेषां तप्यमानानां पुरुषो ऽजायत

सहस्रशीर्षः सहस्राक्षः सहस्रपात्

Transliteration

devā vai svargakāmāstapo 'tapyanta

teṣāṃ tapyamānānāṃ raso 'jāyata

pṛthivy antarikṣaṃ dyaur iti

te 'bhyatapan

teṣāṃ tapyamānānāṃ raso 'jāyata

ṛgvedaḥ pṛthivyā yajurvedo 'ntarikṣātsāmavedo 'muṣmāt

te 'bhyatapan

teṣāṃ tapyamānānāṃ raso 'jāyata

ṛgvedādgārhapatyo yajurvedāddakṣiṇāgniḥ sāmavedād āhavanīyaḥ

te 'bhyatapan

teṣāṃ tapyamānānāṃ puruṣo 'jāyata

sahasraśīrṣaḥ sahasrākṣaḥ sahasrapāt

By System Admin

Translation

Draft in progress