5 shlokas
- 1
नो खल्व् अप्य् उच्चरितं मुहूर्तम् अप्य् उपलभामहे
no khalv apy uccaritaṃ muhūrtam apy upalabhāmahe
- 2
अतो विनष्ट इत्य् अवगच्छामः
ato vinaṣṭa ity avagacchāmaḥ
- 3
न च सन्नोपलभ्यते
na ca sannopalabhyate
- 4
अनुपलम्भकारणानां व्यवधानादीनाम् अभावे ऽप्य् अनुपलम्भनात्
anupalambhakāraṇānāṃ vyavadhānādīnām abhāve 'py anupalambhanāt
- 5
न चासौ विषयम् अप्राप्त आकाशाविषयत्वात्कर्णच्छिद्रे ऽप्य् अनुपलम्भनात्
na cāsau viṣayam aprāpta ākāśāviṣayatvātkarṇacchidre 'py anupalambhanāt

