68 shlokas
- 1
प्रवृत्तिर्यथोक्ता
pravṛttiryathoktā
- 2
तथा दोषाः
tathā doṣāḥ
- 3
त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात्
trairāśyaṃ rāgadveṣamohārthāntarbhāvāt
- 4
न एकप्रत्यनीकभावात्
na ekapratyanīkabhāvāt
- 5
व्यभिचारादहेतुः
vyabhicārādahetuḥ
- 6
तेषां मोहः पापीयान्नामूढस्येतरोत्पत्तेः
teṣāṃ mohaḥ pāpīyānnāmūḍhasyetarotpatteḥ
- 7
निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः
nimittanaimittikabhāvādarthāntarabhāvo doṣebhyaḥ
- 8
न दोषलक्षणावरोधान्मोहस्य
na doṣalakṣaṇāvarodhānmohasya
- 9
निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानाम् अप्रतिषेधः
nimittanaimittikopapatteśca tulyajātīyānām apratiṣedhaḥ
- 10
आत्मनित्यत्वे प्रेत्यभावसिद्धिः
ātmanityatve pretyabhāvasiddhiḥ
- 11
व्यक्ताद्व्यक्तानाम्प्रत्यक्षप्रामाण्यात्
vyaktādvyaktānāmpratyakṣaprāmāṇyāt
- 12
न घटाद्घटनिष्पत्तेः
na ghaṭādghaṭaniṣpatteḥ
- 13
व्यक्ताद्घटनिष्पत्तेर् अप्रतिषेधः
vyaktādghaṭaniṣpatter apratiṣedhaḥ
- 14
अभावाद्भावोत्पत्तिः नानुपमृद्य प्रादुर्भावात्
abhāvādbhāvotpattiḥ nānupamṛdya prādurbhāvāt
- 15
व्याघातादप्रयोगः
vyāghātādaprayogaḥ
- 16
न अतीतानागतयोः कारकशब्दप्रयोगात्
na atītānāgatayoḥ kārakaśabdaprayogāt
- 17
न विनष्टेभ्यो ऽनिष्पत्तेः
na vinaṣṭebhyo 'niṣpatteḥ
- 18
क्रमनिर्देशाद् अप्रतिषेधः
kramanirdeśād apratiṣedhaḥ
- 19
ईश्वरः कारणम्पुरुषकर्माफल्यदर्शनात्
īśvaraḥ kāraṇampuruṣakarmāphalyadarśanāt
- 20
न पुरुषकर्माभावे फलानिष्पत्तेः
na puruṣakarmābhāve phalāniṣpatteḥ
- 21
तत्कारितत्वाद् अहेतुः
tatkāritatvād ahetuḥ
- 22
अनिमित्ततो भावोत्पत्तिः कण्टकतैक्ष्ण्यादिदर्शनात्
animittato bhāvotpattiḥ kaṇṭakataikṣṇyādidarśanāt
- 23
अनिमित्तनिमित्तत्वान्नानिमित्ततः
animittanimittatvānnānimittataḥ
- 24
निमित्तानिमित्तयोर् अर्थान्तरभावाद् अप्रतिषेधः
nimittānimittayor arthāntarabhāvād apratiṣedhaḥ
- 25
सर्वम् अनित्यम् उत्पत्तिविनाशधर्मकत्वात्
sarvam anityam utpattivināśadharmakatvāt
- 26
न अनित्यतानित्यत्वात्
na anityatānityatvāt
- 27
तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत्
tadanityatvamagnerdāhyaṃ vināśyānuvināśavat
- 28
नित्यस्याप्रत्याख्यानम्यथोपलब्धिव्यवस्थानात्
nityasyāpratyākhyānamyathopalabdhivyavasthānāt
- 29
सर्वं नित्यम्पञ्चभूतनित्यत्वात्
sarvaṃ nityampañcabhūtanityatvāt
- 30
न उत्पत्तिविनाशकारणोपलब्धेः
na utpattivināśakāraṇopalabdheḥ

