Harshacharita · Ucchvasa 2 2.94
2.94पश्य तावद्देवम् इत्य् अभिधीयमानश्च तेन मदजलपङ्किलकपोलपट्टपतितां मत्ताम् इव मदपरिमलेन मुकुलितां कथमपि तस्माद्दृष्टिम् आकृष्य तेनैव दौवारिकेणोपदिश्यमानवर्त्मा समतिक्रम्य भूपालकुलसहस्रसंकुलानि त्रीणि कक्षान्तराणि चतुर्थे भुक्तास्थानमण्डपस्य पुरस्ताद् अजिरे स्थितम्दूराद् ऊर्ध्वस्थितेन प्रांशुना कर्णिकारगौरेण व्यायामव्यायतवपुषा शस्त्रिणा मौलेन शरीरपरिवारकलोकेन पङ्क्तिस्थितेन कार्तस्वरस्तम्भमण्डलेनेव परिवृतम् आसन्नोपविष्टविशिष्टेष्टलोकम्हरिचन्दनरसप्रक्षालिते तुषारशीकरशीतलतले दन्तपाण्डुरपादे शशिमय इव मुक्ताशैलशिलापट्टशयने समुपविष्टम्शयनीयपर्यन्तविन्यस्ते समर्पितसकलविग्रहभारं भुजे दिङ्मुखविसर्पिणि देहप्रभाविताने विततमणिमयूखे घर्मसमयसुभगे सरसीव मृदुमृणालजालजटिलजले सराजकं रममाणम्तेजसः परमाणुभिर् इव केवलैर्निर्मितम् अनिच्छन्तम् अपि बलाद् आरोपयितुम् इव सिंहासनम्सर्वावयवेषु सर्वलक्षणैर्गृहीतम्गृहीतब्रह्मचर्यम् आलिङ्गितं राजलक्ष्म्या प्रतिपन्नासिधाराधारणव्रतम् अविसंवादिनं राजर्षिम्विषमराजमार्गविनिहितपदस्खलनभियेव सुलग्नं धर्मे सकलभूपालपरित्यक्तेन भीतेनेव लब्धवाचा सर्वात्मना सत्येन सेव्यमानम् आसन्नवारविलासिनीप्रतियातनाभिश्चरणनखपातिनीभिर्दिग्भिर् इव दशभिः प्रणम्यमानम्दीर्घैर्दिगन्तपातिभिर्दृष्टिपातैर्लोकपालानां कृताकृतम् इव प्रत्यवेक्षमाणम्मणिपादपीठपृष्ठप्रतिष्ठितकरेणोपरिगमनाभ्यनुज्ञां मृग्यमाणम् इव दिवसकरेण भूषणप्रभासम् उत्सारणबद्धपर्यन्तमण्डलेन प्रदक्षिणीक्रियमाणम् इव दिवसेन अप्रणमद्भिर्गिरिभिर् अपि दूयमानं शौर्योष्मणा फेनायमानम् इव चन्दनधवलं लावण्यजलधिम् उद्वहन्तम् एकराज्यौर्जित्येन निजप्रतिबिम्बान्य् अपि नृपचक्रचूडामणिधृतान्य् असहमानम् इव दर्पदुःखासिकया चामरानिलनिभेन बहुधेव श्वसन्तीं राजलक्ष्मीं दधानम्सकलम् इव चतुःसमुद्रलावण्यम् आदायोत्थितया श्रिया समुपश्लिष्टम् आभरणमणिकिरणप्रभाजालजायमानानीन्द्रधनुःसहस्राणीन्द्रप्राभृतप्रहितानि विलभमानम् इव राज्ञां संभाषणेषु परित्यक्तम् अपि मधु वर्षन्तम्काव्यकथास्वपीतम् अप्य् अमृतम् उद्वमन्तं विस्रम्भभाषितेष्व् अनाकृष्टम् अपि हृदयं दर्शयन्तं प्रसादेषु निश्चलाम् अपि श्रियं स्थाने स्थाने स्थापयन्तं वीरगोष्ठीषु पुलकितेन कपोलस्थलेनानुरागसंदेशम् इवोपांशु रणश्रियः शृण्वन्तम् अतिक्रान्तसुभटकलहालापेषु स्नेहवृष्टिम् इव दृष्टिम् इष्टे कृपाणे पातयन्तं परिहासस्मितेषु गुरुप्रतापभीतस्य राजकस्य स्वच्छम् आशयम् इव दशनांशुभिः कथयन्तं सकललोकहृदयस्थितम् अपि न्याये तिष्ठन्तम् अगोचरे गुणानाम् अभूमौ सौभाग्यानाम् अविषये वरप्रदानानाम् अशक्य आशिषाम् अमार्गे मनोरथानाम् अतिदूरे दैवस्यादिश्य् उपमानानाम् असाध्ये धर्मस्यादृष्टपूर्वे लक्ष्म्या महत्त्वे स्थितम् अरुणपादपल्लवेन सुगतमन्थरोरुणा वज्रायुधनिष्ठुरप्रकोष्ठपृष्ठेन वृषस्कन्धेन भास्वद्बिम्बाधरेण प्रसन्नावलोकितेन चन्द्रमुखेन कृष्णकेशेन वपुषा सर्वदेवतावतारमिवैकत्र दर्शयन्तम् अपि च मांसलमयूखमालामलिनितमहीतले महति महार्हे माणिक्यमालामण्डितमेखले महानीलमये पादपीठे कलिकालशिरसीव सलीलं विन्यस्तवामचरणम् आक्रान्तकालियफणाचक्रवालं बालमिव पुण्डरीकाक्षम्क्षौमपाण्डुरेण चरणनखदीधितिप्रतानेन प्रसरता महीं महादेवीपट्टबन्धेनेव महिमानम् आरोपयन्तम् अप्रणतलोकपालकोपेनेवातिलोहितौ सकलनृपतिमौलिमालास्व् अतिपीतं पद्मरागरत्नातपम् इव वमन्तौ सर्वतेजस्विमण्डलास्तमयसंध्याम् इव धारयन्ताव् अशेषराजककुसुमशेखरमधुरसस्रोतांसीव स्रवन्तौ समस्तसामन्तसीमन्तोत्तंसस्रक्सौरभभ्रान्तैर्भ्रमरमण्डलैर् अमित्रोत्तमाङ्गैर् इव मुहूर्तम् अप्य् अविरहितौ संवाहनतत्परायाः श्रियो विकचरक्तपङ्कजवनवासभवनानीव कल्पयन्तौ जलजशङ्खमीनमकरसनाथतलतया कथितचतुरम्भोधिभोगचिह्नाव् इव चरणौ दधानं दिङ्नागदन्तमुसलाभ्याम् इव विकटमकरमुखप्रतिबन्धबन्धुराभ्याम् उद्वेललावण्ययोधिप्रवाहाभ्याम् इव फेनाहितशोभाभ्यां चन्दनद्रुमाभ्याम् इव भोगिमण्डलशिरोरत्नरश्मिरज्यमानमूलाभ्यां हृदयारोपितभूभारधारणमाणिक्यस्तम्भाभ्याम् उरुदण्डाभ्यां विराजमानम् अमृतफेनपिण्डपाण्डुना मेखलामणिमयूखखचितेन नितम्बबिम्बव्यासङ्गिना विमलपयोधौतेन नेत्रसूत्रनिवेशशोभिनाधरवाससा वासुकिनिर्मोकेणेव मन्दरं द्योतमानम् अघनेन सतारागणेनोपरिकृतेन द्वितीयाम्बरेण भुवनाभोगम् इव भासमानम् इभपतिदशनमुसलसहस्रोल्लेखकठिनमसृणेनापर्याप्ताम्बरप्रथिम्ना विविधवाहिनीसंक्षोभकलकलसंमर्दसहिष्णुना कैलासम् इव महता स्फटिकतटेनोरुणोरःकपाटेन विराजमानं श्रीसरस्वत्योरुरोवदनोपभोगविभागसूत्रेणेव पातितेन शेषेणेव च तद्भुजस्तम्भविन्यस्तसमस्तभूभारलब्धविश्रान्तिसुखप्रसुप्तेन हारदण्डेन परिवलितकन्धरम्जीवितावधिगृहीतसर्वस्वमहादानदीक्षाचीरेणेव हारमुक्ताफलानां किरणनिकरेण प्रावृतवक्षःस्थलम् अजजिगीषया बालैर्भुजैर् इवापरैः प्ररोहद्भिर्बाहूपधानशायिन्याः श्रियाः कर्णोत्पलमधुरसधारासंतानैर् इव गलद्भिर्भुजजन्मनः प्रतापस्य निर्गमनमार्गैर् इवाविर्भवद्भिर् अरुणैः केयूररत्नकिरणदण्डैर् उभयतःप्रसारितमणिमयपक्षवितानम् इव माणिक्यमहीधरं सकललोकालोकमार्गार्गलेन चतुरुदधिपरिक्षेपखातशातकुम्भशिलाप्राकारेण सर्वराजहंसबन्धवज्रपञ्जरेण भुवनलक्ष्मीप्रवेशमङ्गलमहामणितोरणेनातिदीर्घदोर्दण्डयुगलेन दिशां दिक्पालानां च युगपद् आयतिम् अपहरन्तं सोदर्यलक्ष्मीचुम्बनलोभेन कौस्तुभमणेर् इव मुखावयवतां गतस्याधरस्य गलता रागेण पारिजातपल्लवरसेनेव सिञ्चन्तं दिङ्मुखान्य् अन्तरान्तरा सुहृत्परिहासस्मितैः प्रकीर्यमाणविमलदशनशिखाप्रतानैः प्रकृतिमूढाया राजश्रियाः प्रज्ञालोकम् इव दर्शयन्तं मुखजनितेन्दुसंदेहागतानि कुमुदिनीवनानीव प्रेषयन्तम्स्फुटधवलदशनपङ्क्तिकृतकुमुदवनशङ्काप्रविष्टां शरज्ज्योत्स्नाम् इव विसर्जयन्तं मदिरामृतपारिजातगन्धगर्भेण भरितसकलककुभा मुखामोदेनामृतमथनदिवसम् इव सृजन्तं विकचमुखकमलकर्णिकाकोशेनानवरतम् आपीयमानश्वाससौरभम् इवाधोमुखेन नासावंशेन चक्षुषः क्षीरस्निग्धस्य धवलिम्ना दिङ्मुखान्य् अपूर्ववदनचन्द्रोदयोद्वेलक्षीरोदोत्प्लावितानीव कुर्वाणं विमलकपोलफलकप्रतिबिम्बितां चामरग्राहिणीं विग्रहिणीम् इव मुखनिवासिनीं सरस्वतीं दधानम् अरुणेन चूडामणिशोचिषा सरस्वतीर्ष्याकुपितलक्ष्मीप्रसादनलग्नेन चरणालक्तकेनेव लोहितायतललाटतटम् आपाटलांशुतन्त्रीसंतानवलयिनीं कुण्डलमणिकुटिलकोटिबालवीणाम् अनवरतचलितचरणानां वादयताम् उपवीणयताम् इव स्वरव्याकरणविवेकविशारदं श्रवणावतंसमधुकरकुलानां कलक्वणितम् आकर्णयन्तम् उत्फुल्लमालतीमयेन राजलक्ष्म्याः कचग्रहलीलालग्नेन नखज्योत्स्नावलयेनेव मुखशशिपरिवेषमण्डलेन मुण्डमालागुणेन परिकलितकेशान्तम्शिखण्डाभरणभुवा मुक्ताफलालोकेन मरकतमणिकिरणकलापेन चान्योन्यसंवलनवृजिनेन प्रयागप्रवाहवेणिकावारिणेवागत्य स्वयम् अभिषिच्यमानं श्रमजलविलीनबहलकृष्णागुरुपङ्कतिलककलङ्ककल्पितेन कालिम्ना प्रार्थनाचाटुचतुरचरणपतनशतश्यामिकाकिणेनेव नीलायमानललाटेन्दुलेखाभिः क्षुभितमानसोद्गतैर् उत्कलिकाकलापैर् इव हारैर् उल्लसद्भिर् अवष्टभ्यमानाभिर्विलासवल्गनचटुलैर्भ्रूलताकल्पैर् ईर्ष्यया श्रियम् इव तर्जयन्तीभिर् आयामिभिः श्वसितैर् अविरलपरिमलैर्मलयमारुतमयैः पाशैर् इवाकर्षन्तीभिर्विकटबकुलावलीवराटकवेष्टितमुखैर्बृहद्भिः स्तनकलशैः स्वदारसंतोषरसम् इवाशेषम् उद्धरन्तीभिः कुचोत्कम्पिकाविकारप्रेङ्खितानां हारतरलमणीनां रश्मिभिर् आकृष्य हृदयम् इव हठात्प्रवेशयन्तीभिः प्रभामुचाम् आभरणमणीनां मयूखैः प्रसारितैर्बहुभिर् इव बाहुभिर् आलिङ्गन्तीभिर्जृम्भानुबन्धबन्धुरवदनारविन्दावरणीकृतैर् उत्तानैः करकिसलयैः सरभसप्रधावितानि मानसानीव निरुन्धतीभिर्मदनान्धमधुकरकुलकीर्यमाणकर्णकुसुमरजःकणकूणितकोणानि कुसुमशरशरनिकरप्रहारमूर्च्छामुकुलितानीव लोचनानि चतुरं संचारयन्तीभिर् अन्योन्यमत्सराद् आविर्भवद्भङ्गुरभ्रुकुटिविभ्रमक्षिप्तैः कटाक्षैः कर्णेन्दीवराणीव ताडयन्तीभिर् अनिमेषदर्शनसुखरसराशिं मन्थरितपक्ष्मणा चक्षुषा पीतम् इव कोमलकपोलपालीप्रतिबिम्बितं वहन्तीभिर् अभिलाषलीलानिर्निमित्तस्मितैश्चन्द्रोदयानिव मदनसहायकाय सम्पादयन्तीभिर् अङ्गभङ्गवलनान्योन्यघटितोत्तानकरवेणिकाभिः स्फुटनमुखराङ्गुलीकाण्डकुण्डलीक्रियमाणनखदीधितिनिवहनिभेनाकिञ्चित्करकामकार्मुकाणीव रुषा भञ्जन्तीभिर्वारविलासिनीभिर्विलुप्यमानसौभाग्यम् इव सर्वतः स्पर्शस्विन्नवेपमानकरकिसलयगलितचरणारविन्दां चरणग्राहिणीं विहस्य कोणेन लीलालसं शिरसि ताडयन्तम् अनवरतकरकलितकोणतया चात्मनः प्रियां वीणाम् इव श्रियम् अपि शिक्षयन्तं निःस्नेह इति धनैर् अनाश्रयणीय इति दोषैर्निग्रहरुचिर् इतीन्द्रियैर्दुरुपसर्प इति कलिना नीरस इति व्यसनैर्भीरुर् इत्य् अयशसा दुर्ग्रहचित्तवृत्तिर् इति चित्तभुवा स्त्रीपर इति सरस्वत्या षण्ढ इति परकलत्रैः काष्ठामुनिर् इति यतिभिर्धूर्त इति वेश्याभिर्नेय इति सुहृद्भिः कर्मकर इति विप्रैः सुसहाय इति शत्रुयोधैर् एकम् अप्य् अनेकधा गृह्यमाणं शन्तनोर्महावाहिनीपतिं भीष्माज्जितकाशिनं द्रोणाच्चापलालसं गुरुपुत्राद् अमोघमार्गणं कर्णान्मित्रप्रियं युधिष्ठिराद्बहुक्षमं भीमाद् अनेकनागायुतबलं धनञ्जयान्महाभारतरणयोग्यं कारणम् इव कृतयुगस्य बीजम् इव विबुधसर्गस्य उत्पत्तिद्वीपम् इव दर्पस्य एकागारम् इव करुणायाः प्रातिवेशिकम् इव पुरुषोत्तमस्य खनिपर्वतम् इव पराक्रमस्य सर्वविद्यासंगीतगृहम् इव सरस्वत्याः द्वितीयामृतमन्थनदिवसम् इव लक्ष्मीसमुत्थानस्य बलदर्शनम् इव वैदग्ध्यस्य एकस्थानम् इव स्थितीनां सर्वस्वकथनम् इव कान्तेर् अपवर्गम् इव रूपपरमाणुसर्गस्य सकलदुश्चरितप्रायश्चित्तम् इव राज्यस्य सर्वबलसंदोहावस्कन्दम् इव कन्दर्पस्य उपायम् इव पुरन्दरदर्शनस्य आवर्तनम् इव धर्मस्य कन्यान्तःपुरम् इव कलानां परमप्रमाणम् इव सौभाग्यस्य राजसर्गसमाप्त्यवभृथस्नानदिवसम् इव सर्वप्रजापतीनां गम्भीरं च प्रसन्नं च त्रासजननं च रमणीयं च कौतुकजननं च पुण्यं च चक्रवर्तिनं हर्षम् अद्राक्षीत्
Transliteration
paśya tāvaddevam ity abhidhīyamānaśca tena madajalapaṅkilakapolapaṭṭapatitāṃ mattām iva madaparimalena mukulitāṃ kathamapi tasmāddṛṣṭim ākṛṣya tenaiva dauvārikeṇopadiśyamānavartmā samatikramya bhūpālakulasahasrasaṃkulāni trīṇi kakṣāntarāṇi caturthe bhuktāsthānamaṇḍapasya purastād ajire sthitamdūrād ūrdhvasthitena prāṃśunā karṇikāragaureṇa vyāyāmavyāyatavapuṣā śastriṇā maulena śarīraparivārakalokena paṅktisthitena kārtasvarastambhamaṇḍaleneva parivṛtam āsannopaviṣṭaviśiṣṭeṣṭalokamharicandanarasaprakṣālite tuṣāraśīkaraśītalatale dantapāṇḍurapāde śaśimaya iva muktāśailaśilāpaṭṭaśayane samupaviṣṭamśayanīyaparyantavinyaste samarpitasakalavigrahabhāraṃ bhuje diṅmukhavisarpiṇi dehaprabhāvitāne vitatamaṇimayūkhe gharmasamayasubhage sarasīva mṛdumṛṇālajālajaṭilajale sarājakaṃ ramamāṇamtejasaḥ paramāṇubhir iva kevalairnirmitam anicchantam api balād āropayitum iva siṃhāsanamsarvāvayaveṣu sarvalakṣaṇairgṛhītamgṛhītabrahmacaryam āliṅgitaṃ rājalakṣmyā pratipannāsidhārādhāraṇavratam avisaṃvādinaṃ rājarṣimviṣamarājamārgavinihitapadaskhalanabhiyeva sulagnaṃ dharme sakalabhūpālaparityaktena bhīteneva labdhavācā sarvātmanā satyena sevyamānam āsannavāravilāsinīpratiyātanābhiścaraṇanakhapātinībhirdigbhir iva daśabhiḥ praṇamyamānamdīrghairdigantapātibhirdṛṣṭipātairlokapālānāṃ kṛtākṛtam iva pratyavekṣamāṇammaṇipādapīṭhapṛṣṭhapratiṣṭhitakareṇoparigamanābhyanujñāṃ mṛgyamāṇam iva divasakareṇa bhūṣaṇaprabhāsam utsāraṇabaddhaparyantamaṇḍalena pradakṣiṇīkriyamāṇam iva divasena apraṇamadbhirgiribhir api dūyamānaṃ śauryoṣmaṇā phenāyamānam iva candanadhavalaṃ lāvaṇyajaladhim udvahantam ekarājyaurjityena nijapratibimbāny api nṛpacakracūḍāmaṇidhṛtāny asahamānam iva darpaduḥkhāsikayā cāmarānilanibhena bahudheva śvasantīṃ rājalakṣmīṃ dadhānamsakalam iva catuḥsamudralāvaṇyam ādāyotthitayā śriyā samupaśliṣṭam ābharaṇamaṇikiraṇaprabhājālajāyamānānīndradhanuḥsahasrāṇīndraprābhṛtaprahitāni vilabhamānam iva rājñāṃ saṃbhāṣaṇeṣu parityaktam api madhu varṣantamkāvyakathāsvapītam apy amṛtam udvamantaṃ visrambhabhāṣiteṣv anākṛṣṭam api hṛdayaṃ darśayantaṃ prasādeṣu niścalām api śriyaṃ sthāne sthāne sthāpayantaṃ vīragoṣṭhīṣu pulakitena kapolasthalenānurāgasaṃdeśam ivopāṃśu raṇaśriyaḥ śṛṇvantam atikrāntasubhaṭakalahālāpeṣu snehavṛṣṭim iva dṛṣṭim iṣṭe kṛpāṇe pātayantaṃ parihāsasmiteṣu gurupratāpabhītasya rājakasya svaccham āśayam iva daśanāṃśubhiḥ kathayantaṃ sakalalokahṛdayasthitam api nyāye tiṣṭhantam agocare guṇānām abhūmau saubhāgyānām aviṣaye varapradānānām aśakya āśiṣām amārge manorathānām atidūre daivasyādiśy upamānānām asādhye dharmasyādṛṣṭapūrve lakṣmyā mahattve sthitam aruṇapādapallavena sugatamantharoruṇā vajrāyudhaniṣṭhuraprakoṣṭhapṛṣṭhena vṛṣaskandhena bhāsvadbimbādhareṇa prasannāvalokitena candramukhena kṛṣṇakeśena vapuṣā sarvadevatāvatāramivaikatra darśayantam api ca māṃsalamayūkhamālāmalinitamahītale mahati mahārhe māṇikyamālāmaṇḍitamekhale mahānīlamaye pādapīṭhe kalikālaśirasīva salīlaṃ vinyastavāmacaraṇam ākrāntakāliyaphaṇācakravālaṃ bālamiva puṇḍarīkākṣamkṣaumapāṇḍureṇa caraṇanakhadīdhitipratānena prasaratā mahīṃ mahādevīpaṭṭabandheneva mahimānam āropayantam apraṇatalokapālakopenevātilohitau sakalanṛpatimaulimālāsv atipītaṃ padmarāgaratnātapam iva vamantau sarvatejasvimaṇḍalāstamayasaṃdhyām iva dhārayantāv aśeṣarājakakusumaśekharamadhurasasrotāṃsīva sravantau samastasāmantasīmantottaṃsasraksaurabhabhrāntairbhramaramaṇḍalair amitrottamāṅgair iva muhūrtam apy avirahitau saṃvāhanatatparāyāḥ śriyo vikacaraktapaṅkajavanavāsabhavanānīva kalpayantau jalajaśaṅkhamīnamakarasanāthatalatayā kathitacaturambhodhibhogacihnāv iva caraṇau dadhānaṃ diṅnāgadantamusalābhyām iva vikaṭamakaramukhapratibandhabandhurābhyām udvelalāvaṇyayodhipravāhābhyām iva phenāhitaśobhābhyāṃ candanadrumābhyām iva bhogimaṇḍalaśiroratnaraśmirajyamānamūlābhyāṃ hṛdayāropitabhūbhāradhāraṇamāṇikyastambhābhyām urudaṇḍābhyāṃ virājamānam amṛtaphenapiṇḍapāṇḍunā mekhalāmaṇimayūkhakhacitena nitambabimbavyāsaṅginā vimalapayodhautena netrasūtraniveśaśobhinādharavāsasā vāsukinirmokeṇeva mandaraṃ dyotamānam aghanena satārāgaṇenoparikṛtena dvitīyāmbareṇa bhuvanābhogam iva bhāsamānam ibhapatidaśanamusalasahasrollekhakaṭhinamasṛṇenāparyāptāmbaraprathimnā vividhavāhinīsaṃkṣobhakalakalasaṃmardasahiṣṇunā kailāsam iva mahatā sphaṭikataṭenoruṇoraḥkapāṭena virājamānaṃ śrīsarasvatyorurovadanopabhogavibhāgasūtreṇeva pātitena śeṣeṇeva ca tadbhujastambhavinyastasamastabhūbhāralabdhaviśrāntisukhaprasuptena hāradaṇḍena parivalitakandharamjīvitāvadhigṛhītasarvasvamahādānadīkṣācīreṇeva hāramuktāphalānāṃ kiraṇanikareṇa prāvṛtavakṣaḥsthalam ajajigīṣayā bālairbhujair ivāparaiḥ prarohadbhirbāhūpadhānaśāyinyāḥ śriyāḥ karṇotpalamadhurasadhārāsaṃtānair iva galadbhirbhujajanmanaḥ pratāpasya nirgamanamārgair ivāvirbhavadbhir aruṇaiḥ keyūraratnakiraṇadaṇḍair ubhayataḥprasāritamaṇimayapakṣavitānam iva māṇikyamahīdharaṃ sakalalokālokamārgārgalena caturudadhiparikṣepakhātaśātakumbhaśilāprākāreṇa sarvarājahaṃsabandhavajrapañjareṇa bhuvanalakṣmīpraveśamaṅgalamahāmaṇitoraṇenātidīrghadordaṇḍayugalena diśāṃ dikpālānāṃ ca yugapad āyatim apaharantaṃ sodaryalakṣmīcumbanalobhena kaustubhamaṇer iva mukhāvayavatāṃ gatasyādharasya galatā rāgeṇa pārijātapallavaraseneva siñcantaṃ diṅmukhāny antarāntarā suhṛtparihāsasmitaiḥ prakīryamāṇavimaladaśanaśikhāpratānaiḥ prakṛtimūḍhāyā rājaśriyāḥ prajñālokam iva darśayantaṃ mukhajanitendusaṃdehāgatāni kumudinīvanānīva preṣayantamsphuṭadhavaladaśanapaṅktikṛtakumudavanaśaṅkāpraviṣṭāṃ śarajjyotsnām iva visarjayantaṃ madirāmṛtapārijātagandhagarbheṇa bharitasakalakakubhā mukhāmodenāmṛtamathanadivasam iva sṛjantaṃ vikacamukhakamalakarṇikākośenānavaratam āpīyamānaśvāsasaurabham ivādhomukhena nāsāvaṃśena cakṣuṣaḥ kṣīrasnigdhasya dhavalimnā diṅmukhāny apūrvavadanacandrodayodvelakṣīrodotplāvitānīva kurvāṇaṃ vimalakapolaphalakapratibimbitāṃ cāmaragrāhiṇīṃ vigrahiṇīm iva mukhanivāsinīṃ sarasvatīṃ dadhānam aruṇena cūḍāmaṇiśociṣā sarasvatīrṣyākupitalakṣmīprasādanalagnena caraṇālaktakeneva lohitāyatalalāṭataṭam āpāṭalāṃśutantrīsaṃtānavalayinīṃ kuṇḍalamaṇikuṭilakoṭibālavīṇām anavaratacalitacaraṇānāṃ vādayatām upavīṇayatām iva svaravyākaraṇavivekaviśāradaṃ śravaṇāvataṃsamadhukarakulānāṃ kalakvaṇitam ākarṇayantam utphullamālatīmayena rājalakṣmyāḥ kacagrahalīlālagnena nakhajyotsnāvalayeneva mukhaśaśipariveṣamaṇḍalena muṇḍamālāguṇena parikalitakeśāntamśikhaṇḍābharaṇabhuvā muktāphalālokena marakatamaṇikiraṇakalāpena cānyonyasaṃvalanavṛjinena prayāgapravāhaveṇikāvāriṇevāgatya svayam abhiṣicyamānaṃ śramajalavilīnabahalakṛṣṇāgurupaṅkatilakakalaṅkakalpitena kālimnā prārthanācāṭucaturacaraṇapatanaśataśyāmikākiṇeneva nīlāyamānalalāṭendulekhābhiḥ kṣubhitamānasodgatair utkalikākalāpair iva hārair ullasadbhir avaṣṭabhyamānābhirvilāsavalganacaṭulairbhrūlatākalpair īrṣyayā śriyam iva tarjayantībhir āyāmibhiḥ śvasitair aviralaparimalairmalayamārutamayaiḥ pāśair ivākarṣantībhirvikaṭabakulāvalīvarāṭakaveṣṭitamukhairbṛhadbhiḥ stanakalaśaiḥ svadārasaṃtoṣarasam ivāśeṣam uddharantībhiḥ kucotkampikāvikārapreṅkhitānāṃ hārataralamaṇīnāṃ raśmibhir ākṛṣya hṛdayam iva haṭhātpraveśayantībhiḥ prabhāmucām ābharaṇamaṇīnāṃ mayūkhaiḥ prasāritairbahubhir iva bāhubhir āliṅgantībhirjṛmbhānubandhabandhuravadanāravindāvaraṇīkṛtair uttānaiḥ karakisalayaiḥ sarabhasapradhāvitāni mānasānīva nirundhatībhirmadanāndhamadhukarakulakīryamāṇakarṇakusumarajaḥkaṇakūṇitakoṇāni kusumaśaraśaranikaraprahāramūrcchāmukulitānīva locanāni caturaṃ saṃcārayantībhir anyonyamatsarād āvirbhavadbhaṅgurabhrukuṭivibhramakṣiptaiḥ kaṭākṣaiḥ karṇendīvarāṇīva tāḍayantībhir animeṣadarśanasukharasarāśiṃ mantharitapakṣmaṇā cakṣuṣā pītam iva komalakapolapālīpratibimbitaṃ vahantībhir abhilāṣalīlānirnimittasmitaiścandrodayāniva madanasahāyakāya sampādayantībhir aṅgabhaṅgavalanānyonyaghaṭitottānakaraveṇikābhiḥ sphuṭanamukharāṅgulīkāṇḍakuṇḍalīkriyamāṇanakhadīdhitinivahanibhenākiñcitkarakāmakārmukāṇīva ruṣā bhañjantībhirvāravilāsinībhirvilupyamānasaubhāgyam iva sarvataḥ sparśasvinnavepamānakarakisalayagalitacaraṇāravindāṃ caraṇagrāhiṇīṃ vihasya koṇena līlālasaṃ śirasi tāḍayantam anavaratakarakalitakoṇatayā cātmanaḥ priyāṃ vīṇām iva śriyam api śikṣayantaṃ niḥsneha iti dhanair anāśrayaṇīya iti doṣairnigraharucir itīndriyairdurupasarpa iti kalinā nīrasa iti vyasanairbhīrur ity ayaśasā durgrahacittavṛttir iti cittabhuvā strīpara iti sarasvatyā ṣaṇḍha iti parakalatraiḥ kāṣṭhāmunir iti yatibhirdhūrta iti veśyābhirneya iti suhṛdbhiḥ karmakara iti vipraiḥ susahāya iti śatruyodhair ekam apy anekadhā gṛhyamāṇaṃ śantanormahāvāhinīpatiṃ bhīṣmājjitakāśinaṃ droṇāccāpalālasaṃ guruputrād amoghamārgaṇaṃ karṇānmitrapriyaṃ yudhiṣṭhirādbahukṣamaṃ bhīmād anekanāgāyutabalaṃ dhanañjayānmahābhārataraṇayogyaṃ kāraṇam iva kṛtayugasya bījam iva vibudhasargasya utpattidvīpam iva darpasya ekāgāram iva karuṇāyāḥ prātiveśikam iva puruṣottamasya khaniparvatam iva parākramasya sarvavidyāsaṃgītagṛham iva sarasvatyāḥ dvitīyāmṛtamanthanadivasam iva lakṣmīsamutthānasya baladarśanam iva vaidagdhyasya ekasthānam iva sthitīnāṃ sarvasvakathanam iva kānter apavargam iva rūpaparamāṇusargasya sakaladuścaritaprāyaścittam iva rājyasya sarvabalasaṃdohāvaskandam iva kandarpasya upāyam iva purandaradarśanasya āvartanam iva dharmasya kanyāntaḥpuram iva kalānāṃ paramapramāṇam iva saubhāgyasya rājasargasamāptyavabhṛthasnānadivasam iva sarvaprajāpatīnāṃ gambhīraṃ ca prasannaṃ ca trāsajananaṃ ca ramaṇīyaṃ ca kautukajananaṃ ca puṇyaṃ ca cakravartinaṃ harṣam adrākṣīt
By System Admin
Translation
Draft in progress