Sanskrit

Bharadvaja Shrauta Sutra · Khanda 3 14.3.1

14.3.1

अथैतद् आग्नीध्रे ऽधिश्रयति वाक्च त्वा मनश्च श्रीणीताम्

प्राणश्च त्वापानश्च श्रीणीताम्

चक्षुश्च त्वा श्रोत्रं च श्रीणीताम्

दक्षश्च त्वा बलं च श्रीणीताम्

ओजश्च त्वा सहश्च श्रीणीताम्

आयुश्च त्वा जरा च श्रीणीताम्

आत्मा च त्वा तनूश्च श्रीणीताम्

शृतो ऽसि शृतंकृतः

शृताय त्वा शृतेभ्यस्त्वेति

Transliteration

athaitad āgnīdhre 'dhiśrayati vākca tvā manaśca śrīṇītām

prāṇaśca tvāpānaśca śrīṇītām

cakṣuśca tvā śrotraṃ ca śrīṇītām

dakṣaśca tvā balaṃ ca śrīṇītām

ojaśca tvā sahaśca śrīṇītām

āyuśca tvā jarā ca śrīṇītām

ātmā ca tvā tanūśca śrīṇītām

śṛto 'si śṛtaṃkṛtaḥ

śṛtāya tvā śṛtebhyastveti

By System Admin

Translation

Draft in progress