119 shlokas
- 1
प्राग्दिशो विभक्तिः
prāgdiśo vibhaktiḥ
- 2
किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः
kiṃsarvanāmabahubhyo 'dvyādibhyaḥ
- 3
इदम इश्
idama iś
- 4
एतेतौ रथोः
etetau rathoḥ
- 5
एतदो ऽन्
etado 'n
- 6
सर्वस्य सो ऽन्यतरस्यां दि
sarvasya so 'nyatarasyāṃ di
- 7
पञ्चम्यास्तसिल्
pañcamyāstasil
- 8
तसेश्च
taseśca
- 9
पर्यभिभ्यां च
paryabhibhyāṃ ca
- 10
सप्तम्यास्त्रल्
saptamyāstral
- 11
इदमो हः
idamo haḥ
- 12
किमो ऽत्
kimo 't
- 13
वा ह च छन्दसि
vā ha ca chandasi
- 14
इतराभ्यो ऽपि दृश्यन्ते
itarābhyo 'pi dṛśyante
- 15
सर्वैकान्यकिंयत्तदः काले दा
sarvaikānyakiṃyattadaḥ kāle dā
- 16
इदमो र्हिल्
idamo rhil
- 17
अधुना
adhunā
- 18
दानीं च
dānīṃ ca
- 19
तदो दा च
tado dā ca
- 20
तयोर्दार्हिलौ च छन्दसि
tayordārhilau ca chandasi
- 21
अनद्यतने र्हिल् अन्यतरस्याम्
anadyatane rhil anyatarasyām
- 22
सद्यः परुत्परार्यैषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः
sadyaḥ parutparāryaiṣamaḥ paredyavyadyapūrvedyuranyedyuranyataredyuritaredyuraparedyuradharedyurubhayedyuruttaredyuḥ
- 23
प्रकारवचने थाल्
prakāravacane thāl
- 24
इदमस्थमुः
idamasthamuḥ
- 25
किमश्च
kimaśca
- 26
था हेतौ च छन्दसि
thā hetau ca chandasi
- 27
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्व् अस्तातिः
dikśabdebhyaḥ saptamīpañcamīprathamābhyo digdeśakāleṣv astātiḥ
- 28
दक्षिणोत्तराभ्याम् अतसुच्
dakṣiṇottarābhyām atasuc
- 29
विभाषा परावराभ्याम्
vibhāṣā parāvarābhyām
- 30
अञ्चेर्लुक्
añcerluk

