168 shlokas
- 1
युष्मदस्मदोर् अन्यतरस्यां खञ्च
yuṣmadasmador anyatarasyāṃ khañca
- 2
तस्मिन्न् अणि च युष्माकास्माकौ
tasminn aṇi ca yuṣmākāsmākau
- 3
तवकममकाव् एकवचने
tavakamamakāv ekavacane
- 4
अर्धाद्यत्
ardhādyat
- 5
परावराधमोत्तमपूर्वाच्च
parāvarādhamottamapūrvācca
- 6
दिक्पूर्वपदाट्ठञ्च
dikpūrvapadāṭṭhañca
- 7
ग्रामजनपदैकदेशाद् अञ्ठञौ
grāmajanapadaikadeśād añṭhañau
- 8
मध्यान्मः
madhyānmaḥ
- 9
अ साम्प्रतिके
a sāmpratike
- 10
द्वीपाद् अनुसमुद्रं यञ्
dvīpād anusamudraṃ yañ
- 11
कालाट्ठञ्
kālāṭṭhañ
- 12
श्राद्धे शरदः
śrāddhe śaradaḥ
- 13
विभाषा रोगातपयोः
vibhāṣā rogātapayoḥ
- 14
निशाप्रदोषाभ्यां च
niśāpradoṣābhyāṃ ca
- 15
श्वसस्तुट्च
śvasastuṭca
- 16
सन्धिवेलाद्यृतुनक्षत्रेभ्यो ऽण्
sandhivelādyṛtunakṣatrebhyo 'ṇ
- 17
प्रावृष एण्यः
prāvṛṣa eṇyaḥ
- 18
वर्षाभ्यष्ठक्
varṣābhyaṣṭhak
- 19
छन्दसि ठञ्
chandasi ṭhañ
- 20
वसन्ताच्च
vasantācca
- 21
हेमन्ताच्च
hemantācca
- 22
सर्वत्र अण्च तलोपश्च
sarvatra aṇca talopaśca
- 23
सायंचिरंप्राह्णेप्रगे ऽव्ययेभ्यष्ट्युट्युलौ तुट्च
sāyaṃciraṃprāhṇeprage 'vyayebhyaṣṭyuṭyulau tuṭca
- 24
विभाषा पूर्वाह्णापराह्णाभ्याम्
vibhāṣā pūrvāhṇāparāhṇābhyām
- 25
तत्र जातः
tatra jātaḥ
- 26
प्रावृषष्ठप्
prāvṛṣaṣṭhap
- 27
सञ्ज्ञायां शरदो वुञ्
sañjñāyāṃ śarado vuñ
- 28
पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन्
pūrvāhṇāparāhṇārdrāmūlapradoṣāvaskarādvun
- 29
पथः पन्थ च
pathaḥ pantha ca
- 30
अमावास्याया वा
amāvāsyāyā vā

