188 shlokas
- 1
कर्मण्य् अण्
karmaṇy aṇ
- 2
ह्वावामश्च
hvāvāmaśca
- 3
आतो ऽनुपसर्गे कः
āto 'nupasarge kaḥ
- 4
सुपि स्थः
supi sthaḥ
- 5
तुन्दशोकयोः परिमृजापनुदोः
tundaśokayoḥ parimṛjāpanudoḥ
- 6
प्रे दाज्ञः
pre dājñaḥ
- 7
समि ख्यः
sami khyaḥ
- 8
गापोष्टक्
gāpoṣṭak
- 9
हरतेर् अनुद्यमने ऽच्
harater anudyamane 'c
- 10
वयसि च
vayasi ca
- 11
आङि ताच्छील्ये
āṅi tācchīlye
- 12
अर्हः
arhaḥ
- 13
स्तम्बकर्णयो रमिजपोः
stambakarṇayo ramijapoḥ
- 14
शमि धातोः सञ्ज्ञायाम्
śami dhātoḥ sañjñāyām
- 15
अधिकरणे शेतेः
adhikaraṇe śeteḥ
- 16
चरेष्टः
careṣṭaḥ
- 17
भिक्षासेनादायेषु च
bhikṣāsenādāyeṣu ca
- 18
पुरोऽग्रतोऽग्रेषु सर्तेः
puro'grato'greṣu sarteḥ
- 19
पूर्वे कर्तरि
pūrve kartari
- 20
कृञो हेतुताच्छील्यानुलोम्येषु
kṛño hetutācchīlyānulomyeṣu
- 21
दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु
divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu
- 22
कर्मणि भृतौ
karmaṇi bhṛtau
- 23
न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु
na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu
- 24
स्तम्बशकृतोर् इन्
stambaśakṛtor in
- 25
हरतेर्दृतिनाथयोः पशौ
haraterdṛtināthayoḥ paśau
- 26
फलेग्रहिर् आत्मम्भरिश्च
phalegrahir ātmambhariśca
- 27
छन्दसि वनसनरक्षिमथाम्
chandasi vanasanarakṣimathām
- 28
एजेः खश्
ejeḥ khaś
- 29
नासिकास्तनयोर्ध्माधेटोः
nāsikāstanayordhmādheṭoḥ
- 30
नाडीमुष्ट्योश्च
nāḍīmuṣṭyośca

