29 câu kệ
ॐ अथ भारद्वाजः कुमारं पप्रच्छ । कोऽयं भवादृशानां परमशिवभक्तानां सिद्धान्तः । कुतः सर्वे न विदन्तीति । तद्गुह्यमुवाच स्कन्दः । भारद्वाज शृणु नाम क्वचिद्वदन्ति साम्बं सर्वदेवप्रकृष्टं शिवं वरेण्यं पक्वचित्ता: शिवस्य प्रसादतो ज्ञानमात्राद्विदन्ति ।
2विश्वाधिकं शङ्करं ये प्रमूढा हीनं विष्णोर्ब्रह्मणो वा वदन्ति ।
3यथा राज्ञे कुर्वन्नमात्यबुद्धिं
4महानग्निः काष्ठमार्द्रं च शुष्कं कृत्वा दहेदीश्वरोत्कृष्टबुद्धिः ।
5महादेवे त्रिपुण्ड्रस्य धारणे भस्मकुण्ठने ।
6पापपूर्णस्य मर्त्यस्य त्रिपुण्ड्रोद्भूलने शिवे ।
7जन्मान्यनन्तानि विस्तीर्य भूयः शिवप्रसादाद्धृतपुण्यलेश: ।
8योऽज्ञानाद्वा शिवशब्दं गृणानः पापैर्घोरैर्मुच्यते वा कदाचित् ।
9सद्योजाताद्ब्राह्मणाः संबभूवुर्वामदेवात् क्षत्रिया वै विशश्च ।
10आत्माश्रमित्वाद्गुणवंशजाता लिङ्गाङ्गसङ्गस्तत्र जन्मान्तदीक्षा ।
11गच्छंस्तिष्ठन्निमिषन्नुन्मिषन् वा स्वपञ्चाग्राल्लिङ्गधारी शुचिः स्यात् ।
12शीर्षे कण्ठे वक्षसि कक्षदेशे नाभौ हस्ते सर्वदा प्राणलिङ्गम् ।
13स्नानं कृत्वा शिवतीर्थे च देहं सर्वं भस्मोद्धूलनात् पावयित्वा ।
14स्नानं त्रिपुण्ड्रस्य शिरोललाटवक्षःस्कन्धमणिबन्धेषु कूrpe ।
15वह्नित्रयं तच्च जगत्त्रयं यद्गुणत्रयं तच्च शक्तित्रयं स्यात् ।
16निमीलिताक्षस्य पुरत्रयाणि
17द्वात्रिंशद्रुद्राक्षाः कण्ठमालाप्रयुक्ताः
18द्वात्रिंशदुक्ता मणिबन्धयोश्च चतुर्विंशाः शतमष्टौ जपार्थम् । पुरा लीना: सृष्टिकालाच्छिवस्य पञ्चाक्षरे मन्त्रवर्ये समस्ताः । भूतानि पञ्च वेदा आगमाश्च शिवाल्लब्धोऽभून्मन्त्रवर्यो विधात्रा ॥
19देहिनो देहमायान्ति न यावन्मन्त्रनायकः ।
20योऽयं नकारः सोऽयमकारः स सद्योजातो भूrऋग्वेद: संपुटमुच्यते । योऽयं मकारः सोऽयमुकारः स वामदेव आपो यजुर्वेदो वक्त्रमुच्यते । योऽयं शिकारः सोऽयं मकारः स घोरः स वायुः सामवेदो गुण उच्यते । योऽयं वकारः सोऽयं नादः स तत्पुरुषः स तेजोऽथर्ववेदाऽघोरमुच्यते । योऽयं यकारः तदिदं समस्तमोमिति निर्विशेषप्रणवः स सर्वोत्तम ईशान आकाश आगमो लिङ्गमुच्यते । इत्येतत्तत्त्वं यो विजानाति स नित्यं शुद्धबुद्धपरमानन्दपरमशिवस्वरूपः ।
21पुरा देवा: पशुपाशाद्विमुक्ताः शिवं पूज्यैव हरिपद्मादयोऽपि ।
22शक्रेण हैमं यक्षराजेन विश्वेदेवै रौप्यं वसुभिः कांस्यकं च ।
23आदित्यैस्ताम्रं मौक्तिकं देवतैस्तैरनन्ताद्यैः फणिभिश्च प्रवालम् ।
24दारूद्भवं निर्ऋतिना यमेन सुपूज्यमासीन्मारकतं च रुद्रैः ।
25सरस्वती रत्नरूपं च दुर्गा हैमं लिङ्गं पूजयामास भक्त्या ।
26अत्यल्पमपि नैवेद्यं फलं वा जलमेव वा ।
27किमन्यैर्धार्यैर्भस्मनि शुद्धपुण्ड्रे स्थिते किमन्यैर्मन्त्रवर्येऽथ मन्त्रैः ।
28सिद्धान्तोऽयं निश्चितोऽस्माभिरेष भारद्वाज गुह्यमेतन्न वाच्यम् ।
29इत्याह भगवान् स्कन्दः । तामेनां सिद्धान्तशिखां प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानोऽह्निकृतं पापं नाशयति । सार्वकालं प्रयुञ्जानः पापैरपापो भवतीति विज्ञायते । इति वेदवचनं भवति । इति वेदवचनं भवति । ॐ सत्यमित्युपनिषत् ॥

