33 câu kệ
अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा प्रणम्येति होवाच । अधीहि भगवन् सर्वविद्यां सर्वरहस्यवरिष्ठां सदा सद्भिः पूज्यमानां निगूढाम् । कया च पूजया सर्वपापं व्यपोह्य परात्परं शिवसायुज्यमाप्नोति ? केनैकेन वस्तुना मुक्तो भवति ? तं होवाच भगवान् सदाशिवः ।
2न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन ।
3इति ब्रुवन्तं परमेश्वरं पुनः प्रणम्येति होवाच ॥
4भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण ।
5इति पुनः पृच्छन्तं वामदेवमालिङ्गयेति होवाच ॥
6बुद्विमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम ।
7द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव ।
8बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा ।
9प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च
10सद्योजातादिभिर्मन्त्रैर्नमस्कृत्य पुनः पुनः ।
11देवीं ध्यायेत्तथा वृक्षे विष्णुरूपं च सर्वदा ।
12वामदक्षिणमध्यस्थं ब्रह्मविष्णुशिवात्मकम् ।
13पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये ।
14मम सायुज्यमाप्नोति नात्र कार्या विचारणा ।
15पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ।
16पृष्ठभागेऽमृतं न्यस्तं देवैर्ब्रह्मादिभिः पुरा ।
17तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।
18तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।
19इह लोकेऽखिलं सौख्यं प्राप्नोत्यन्ते पुरे मम ।
20सोदकैर्बिल्वपत्रैश्च यः कुर्यान्मम पूजनम् ।
21सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
22त्रिसुपर्णं त्रिऋचां रूपं त्रिसुपर्ण त्रयीमयम् ।
23कालत्रयं च सवनत्रयं लिङ्गत्रयं त्रिपात् ।
24देवेषु ब्राह्मणोऽहं हि त्रिसुपर्णमयाचितम् ।
25दद्याद्ब्रह्मभ्रूणवीरहत्यायाश्चान्यपातकैः ।
26त्रिसुपर्णोपनिषदः पठनात्पङ्क्तिपावनः ।
27त्रिसुपर्णश्रुतिर्ह्येषा निष्कृतौ त्रिदले रता ।
28अखण्डानन्दसंबोधमयो यस्मादहं मुने ।
29अमृतं मोक्षवाचन्तु तेनास्मदवकुण्ठनात् ।
30उत्तानभागपर्णेन मूर्ध्नि मे न्युब्जमर्पयेत् ।
31येन केन प्रकारेण बिल्वकेनापि मां यज ।
32बिल्वं विधानतः स्थाप्य वर्धयित्वा च तद्दलैः ।
33य एतदधीते ब्रह्माऽब्रह्मा भवति । स्वर्णस्तेय्यस्तेयी भवति । सुरापाय्यपायी भवति । गुरुवधूगाम्यगामी भवति । महापातकोपपातकेभ्यः पूतो भवति । न च पुनरावर्तते । न च पुनरावर्तते । न च पुनरावर्तते । ॐ सत्यम् ॥

