Sanskritçe
Kavya

चारुचर्या

Charucharya

Kshemendra100 şloka

100 şloka

1

श्रीलाभसुभगः सत्यासक्तः स्वर्गापवर्गदः ।

2

ब्राह्मे मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः ।

3

पुण्यपूतशरीरः स्यात् सततं स्नाननिर्मलः ।

4

न कुर्वीत क्रियां कांचिदनभ्यर्च्य महेश्वरम् ।

5

श्राद्धं श्रद्धान्वितं कुर्याच्छास्त्रोक्तेनैव वर्त्मना ।

6

नोत्तरस्यां प्रतीच्यां वा कुर्वीत शयने शिरः ।

7

अर्थिभुक्तावशिष्टं यत् तदश्नीयान्महाशयः ।

8

जपहोमार्चनं कुर्यात् सुधौतचरणः शुचिः ।

9

न सञ्चरणशीलः स्यान्निशि निःशङ्कमानसः ।

10

न कुर्यात् परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् ।

11

न मद्यव्यसनी क्षीबः कुर्याद् वेतालचेष्टितम् ।

12

ईर्ष्या कलहमूलं स्यात् क्षमा मूलं हि सम्पदाम् ।

13

न त्यजेद् धर्ममर्यादामपि क्लेशदशां श्रितः ।

14

न सत्यव्रतभङ्गेन कार्यं धीमान् प्रसाधयेत् ।

15

कुर्वीत संगतं सद्भिर्नासद्भिर्गुणवर्जितैः ।

16

मातरं पितरं भक्त्या तोषयेन्न प्रकोपयेत् ।

17

जराग्रहणतुष्टेन निजयौवनदः सुतः ।

18

दानं सत्त्वमितं दद्यान्न पश्चात्तापदूषितम् ।

19

त्यागे सत्त्वनिधिः कुर्यान्न प्रत्युपकृतिस्पृहाम् ।

20

ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः ।

21

दम्भारम्भोद्धतं धर्मं नाचरेदन्तनिष्फलम् ।

22

नासेव्यसेवया दध्याद् दैवाधीने धने धियम् ।

23

परप्राणपरित्राणपरः कारुण्यवान् भवेत् ।

24

अद्वेषपेशलं कुर्यान्मनः कुसुमकोमलम् ।

25

अविस्मृतोपकारः स्यान्न कुर्वीत कृतघ्नताम् ।

26

स्त्रीजितो न भवेद् धीमान् गाढरागवशीकृतः ।

27

न स्वयं संस्तुतिपदैर्ग्लानिं गुणगणं नयेत् ।

28

क्षिपेद् वाक्यशरांस्तीक्ष्णान्न पारुष्यव्युपप्लुतान् ।

29

परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् ।

30

कुर्यान्नीचजनाभ्यस्तां न याच्ञां मानहारिणीम् ।

31

न बन्धुसंबन्धिजनं दूषयेन्नापि वर्जयेत् ।

32

न विवादमदान्धः स्यान्न परेषाममर्षणः ।

33

गुणस्तवेन कुर्वीत महतां मानवर्धनम् ।

34

नात्यर्थमर्थार्थनया धीमानुद्वेजयेज्जनम् ।

35

वक्रैः क्रूरतरैर्लुब्धैर्न कुर्यात् प्रीतिसंगतिम् ।

36

तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् ।

37

कुर्याद्वियोगदुःखेषु धैर्यमुत्सृज्य दीनताम् ।

38

न क्रोधयातुधानस्य धीमान् गच्छेदधीनताम् ।

39

त्यजेद् मृगव्यव्यसनं हिंसयातिमलीमसम् ।

40

शिवेनेव न तुष्टेन बुद्धिर्देया विनाशिनी ।

41

न जातूल्लङ्घनं कुर्यात् सतां मर्मविदारणम् ।

42

गुणेष्वेवादरं कुर्यान्न जातौ जातु तत्त्ववित् ।

43

विद्योद्योगी गतोद्वेगः सेवया तोषयेद् गुरुम् ।

44

स्वामिसेवारतं भक्तं निर्दोषं न परित्यजेत् ।

45

रक्षेत् ख्यातिं पुनःस्मृत्या यशःकायस्य जीवनीम् ।

46

न कदर्यतया रक्षेल्लक्ष्मीं क्षिप्रपलायिनीम् ।

47

शक्तिक्षये क्षमां कुर्यान्नाशक्तः शक्तमाक्षिपेत् ।

48

वेश्यावचसि विश्वासी न भवेन्नित्यकैतवे ।

49

अल्पमप्यवमन्येत न शत्रुं बलदर्पितः ।

50

नृशंसं क्रूरकर्माणं विश्वसेन्न कदाचन ।

51

औचित्यप्रच्युताचारो युक्त्या स्वार्थं न साधयेत् ।

52

वर्जयेदिन्द्रियजयी विजने जननीमपि ।

53

न तीव्रतपसां कुर्याद् धैर्यविप्लवचापलम् ।

54

न नित्यकलहाक्रान्ते सक्तिं कुर्वीत कैतवे ।

55

प्रभुप्रसादे सत्याशां न कुर्यात् स्वप्नसंनिभे ।

56

न लोकायतवादेन नास्तिकत्वेऽर्पयेद् धियम् ।

57

अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत् ।

58

सन्धिं विधाय रिपुणा न निःशङ्कः सुखी भवेत् ।

59

हितोपदेशं श्रुत्वा तु कुर्वीत च यथोचितम् ।

60

बह्वन्नाशनलोभेन रोगी मन्दरुचिर्भवेत् ।

61

यत्नेन शोषयेद्दोषान्न तु तीव्रव्रतैस्तनुम् ।

62

स्थिरताशां न बध्नीयाद् भुवि भावेषु भाविषु ।

63

विडम्बयेन्न वृद्धानां वाक्यकर्मवपुःक्रियाः ।

64

नोपदेशेऽप्यभव्यानां मिथ्या कुर्यात् प्रवादिताम् ।

65

न तीव्रदीर्घवैराणां मन्युं मनसि रोपयेत् ।

66

न सतीनां तपोदीप्तं कोपयेत् क्रोधपावकम् ।

67

गुरुमाराधयेद् भक्त्या विद्याविनयसाधनम् ।

68

वसु देयं स्वयं दद्याद् बलाद् यद् दापयेत् परः ।

69

साधयेद्धर्मकामार्थान् परस्परमबाधकान् ।

70

स्वकुलान्न्यूनतां नेच्छेत् तुल्यः स्यादथवाधिकः ।

71

कुर्यात्तीर्थाम्बुभिः पूतमात्मानं सततोज्ज्वलम् ।

72

आपत्कालोपयुक्तासु कलासु स्यात् कृतश्रमः ।

73

अरागभोगसुभगः स्यात् प्रसक्तविरक्तधीः ।

74

अशिष्यसेवया लाभलोभेन स्याद् गुरुर्लघुः ।

75

नष्टशीलां त्यजेन्नारीं रागवृद्धिविधायिनीम् ।

76

न गीतवाद्याभिरतिर्विलासव्यसनी भवेत् ।

77

उद्वेजयेन्न तैक्ष्ण्येन रामाः कुसुमकोमलाः ।

78

पद्मवन्न नयेत् कोषं धूर्तभ्रमरभोज्यताम् ।

79

नोपदेशामृतं प्राप्तं भग्नकुम्भनिभस्त्यजेत् ।

80

न पुत्रायत्तमैश्वर्यं कार्यमार्यैः कदाचन ।

81

न शत्रुशेषदूष्याणां स्कन्धे कार्यं समर्पयेत् ।

82

न लब्धे प्रभुसंमाने फलक्लेशं समाश्रयेत् ।

83

श्रुतिस्मृत्युक्तमाचारं न त्यजेत् साधुसेवितम् ।

84

श्रियः कुर्यात् पलायिन्या बन्धाय गुणसंग्रहम् ।

85

पदाग्निं गां गुरुं देवं न चोच्छिष्टः स्पृशेद् घृतम् ।

86

प्रतिलोमविवाहेषु न कुर्यादुन्नतिस्पृहाम् ।

87

रूपार्थकुलविद्यादिहीनं नोपहसेन्नरम् ।

88

बन्धूनां वारयेद् वैरं नैकपक्षाश्रयो भवेत् ।

89

परोपकारं संसारसारं कुर्वीत सत्त्ववान् ।

90

विभृयाद् बन्धुमधनं मित्रं त्रायेत दुर्गतम् ।

91

न कुर्यादभिचारोग्रवध्यादिकुहकाः क्रियाः ।

92

ब्रह्मचारी गृहस्थः स्याद् वानप्रस्थो यतिः क्रमात् ।

93

कुर्याद् व्ययं स्वहस्तेन प्रभूतधनसंपदाम् ।

94

जन्मावधि न तत् कुर्यादन्ते संतापकारि यत् ।

95

जराशुभ्रेषु केशेषु तपोवनरुचिर्भवेत् ।

96

पुनर्जन्मजराच्छेदकोविदः स्याद् वयःक्षये ।

97

परमात्मानमन्तेऽन्तर्ज्योतिः पश्येत् सनातनम् ।

98

प्राप्तावधिरजीवेऽपि जीवेत् सुकृतसंततिः ।

99

अन्ते संतोषदं विष्णुं स्मरेद्धन्तारमापदाम् ।

100

श्रव्या श्रीव्यासदासेन समासेन सतां मता ।