సంస్కృతం
Stotra

इन्द्रसहस्रे कटाक्षस्तबकः

Indrasahasre Katakshastabakah

Ganapati Muni24 శ్లోకాలు

24 శ్లోకాలు

1

तं दशशताक्षं शीतलकटाक्षम् ।

2

उग्रमपि दक्षं भासुरकटाक्षम् ।

3

आर्तजनपक्षं रक्षककटाक्षम् ।

4

देवमसदृक्षं पावनकटाक्षम् ।

5

तं पुरुषमीडे स्तुत्यगणलक्षम् ।

6

यत्र तव दृष्टिर्वज्रधर हृद्या ।

7

तत्र वरलक्ष्मीः सन्ततमशून्या ।

8

तत्र बलमुग्रं शत्रुमदहारि ।

9

यं तव बलारे पावयति दृष्टिः ।

10

यत्र तव पूर्णा दृष्टिरतिभद्रा ।

11

किं नु सुकृतादी किं दुरितखादी ।

12

भक्तिरसिकानां पापततिखादी ।

13

पापततिखादी यत्र स कृपावान् ।

14

तस्य जगदर्थे सर्वमपि कार्यम् ।

15

पक्वसुकृतादी यत्र सविचित्रः ।

16

ये गिरिशनाम्रा ये च हरिनाम्ना ।

17

शक्तिरिति नाम्ना ये बहुलधाम्ना ।

18

त्वामयि भजन्ते भक्त्यतिशयेन ।

19

तेष्वपि दिवो भूनाथ तव दक्षाः ।

20

त्वत्पदमजानन्नप्यज पवित्रम् ।

21

दृष्टिवशतस्ते प्रेष्ठफलधारा ।

22

पावनकटाक्षैः संशमय पापम् ।

23

मङ्गलकटाक्षैः साधय ममेष्टम् ।

24

भासुरकटाक्षैर्भासयतु मह्यम् ।