٢٥ شلوڪ
उद्दीप्यत् किरणं चित्रं श्रीशरणम् ।
2सत्यः कोऽपि शिवो नित्यः पालयिता ।
3नास्त्येतस्य वपुर्वस्त्ये क्वापि न सः ।
4उक्तं सूक्ष्मतमं द्वेधैकं परमम् ।
5सोऽणुः स्यादणुतो धातैषां जगताम् ।
6गत्वा तिष्ठति ना यत्स्वं हार्दपदम् ।
7आत्मानं जगतां राजानं पितरम् ।
8दीप्यन्तं दिवि तं लोके सर्वभुजम् ।
9दृश्ये विश्वतनुं पारे निर्वपुषम् ।
10अष्टौ ते तनवः त्रातर्विश्वमिदम् ।
11सर्वेषां जगतां माता देवनुता ।
12शक्त्यासौ भुवनं सृष्ट्वा पातुमिदम् ।
13सूक्ष्मं स्यादगुणं हैमं स्यात्सगुणम् ।
14भाषामात्रवपुः पूर्वं स्यादवपुः ।
15बिभ्रद्भाति जगत्साम्राज्यं गगने ।
16इन्द्रो वेदविदां भाषायां सपरः ।
17प्रत्युष्णांशुतया तन्वा बिम्बितया ।
18अभ्रे राजति यो बिभ्राणो भुवनम् ।
19गौरोऽयं गगने शुक्लः शुभ्रनगे ।
20रुद्रः शुक्लगिरावग्निर्वा स पुमान् ।
21हैमं भूतपते शुक्लं वा शिव ते ।
22अभ्रे ये मरुतः शुभ्रे भूभृति ते ।
23दासोऽहं मरुतः पातारो जगतः ।
24पायान्मामभितस्तिष्ठन्तं तपसि ।
25गातारं गणपं गायत्रैर्मुकुलैः ।

