١٠٠ شلوڪ
श्रीलाभसुभगः सत्यासक्तः स्वर्गापवर्गदः ।
2ब्राह्मे मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः ।
3पुण्यपूतशरीरः स्यात् सततं स्नाननिर्मलः ।
4न कुर्वीत क्रियां कांचिदनभ्यर्च्य महेश्वरम् ।
5श्राद्धं श्रद्धान्वितं कुर्याच्छास्त्रोक्तेनैव वर्त्मना ।
6नोत्तरस्यां प्रतीच्यां वा कुर्वीत शयने शिरः ।
7अर्थिभुक्तावशिष्टं यत् तदश्नीयान्महाशयः ।
8जपहोमार्चनं कुर्यात् सुधौतचरणः शुचिः ।
9न सञ्चरणशीलः स्यान्निशि निःशङ्कमानसः ।
10न कुर्यात् परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् ।
11न मद्यव्यसनी क्षीबः कुर्याद् वेतालचेष्टितम् ।
12ईर्ष्या कलहमूलं स्यात् क्षमा मूलं हि सम्पदाम् ।
13न त्यजेद् धर्ममर्यादामपि क्लेशदशां श्रितः ।
14न सत्यव्रतभङ्गेन कार्यं धीमान् प्रसाधयेत् ।
15कुर्वीत संगतं सद्भिर्नासद्भिर्गुणवर्जितैः ।
16मातरं पितरं भक्त्या तोषयेन्न प्रकोपयेत् ।
17जराग्रहणतुष्टेन निजयौवनदः सुतः ।
18दानं सत्त्वमितं दद्यान्न पश्चात्तापदूषितम् ।
19त्यागे सत्त्वनिधिः कुर्यान्न प्रत्युपकृतिस्पृहाम् ।
20ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः ।
21दम्भारम्भोद्धतं धर्मं नाचरेदन्तनिष्फलम् ।
22नासेव्यसेवया दध्याद् दैवाधीने धने धियम् ।
23परप्राणपरित्राणपरः कारुण्यवान् भवेत् ।
24अद्वेषपेशलं कुर्यान्मनः कुसुमकोमलम् ।
25अविस्मृतोपकारः स्यान्न कुर्वीत कृतघ्नताम् ।
26स्त्रीजितो न भवेद् धीमान् गाढरागवशीकृतः ।
27न स्वयं संस्तुतिपदैर्ग्लानिं गुणगणं नयेत् ।
28क्षिपेद् वाक्यशरांस्तीक्ष्णान्न पारुष्यव्युपप्लुतान् ।
29परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् ।
30कुर्यान्नीचजनाभ्यस्तां न याच्ञां मानहारिणीम् ।
31न बन्धुसंबन्धिजनं दूषयेन्नापि वर्जयेत् ।
32न विवादमदान्धः स्यान्न परेषाममर्षणः ।
33गुणस्तवेन कुर्वीत महतां मानवर्धनम् ।
34नात्यर्थमर्थार्थनया धीमानुद्वेजयेज्जनम् ।
35वक्रैः क्रूरतरैर्लुब्धैर्न कुर्यात् प्रीतिसंगतिम् ।
36तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् ।
37कुर्याद्वियोगदुःखेषु धैर्यमुत्सृज्य दीनताम् ।
38न क्रोधयातुधानस्य धीमान् गच्छेदधीनताम् ।
39त्यजेद् मृगव्यव्यसनं हिंसयातिमलीमसम् ।
40शिवेनेव न तुष्टेन बुद्धिर्देया विनाशिनी ।
41न जातूल्लङ्घनं कुर्यात् सतां मर्मविदारणम् ।
42गुणेष्वेवादरं कुर्यान्न जातौ जातु तत्त्ववित् ।
43विद्योद्योगी गतोद्वेगः सेवया तोषयेद् गुरुम् ।
44स्वामिसेवारतं भक्तं निर्दोषं न परित्यजेत् ।
45रक्षेत् ख्यातिं पुनःस्मृत्या यशःकायस्य जीवनीम् ।
46न कदर्यतया रक्षेल्लक्ष्मीं क्षिप्रपलायिनीम् ।
47शक्तिक्षये क्षमां कुर्यान्नाशक्तः शक्तमाक्षिपेत् ।
48वेश्यावचसि विश्वासी न भवेन्नित्यकैतवे ।
49अल्पमप्यवमन्येत न शत्रुं बलदर्पितः ।
50नृशंसं क्रूरकर्माणं विश्वसेन्न कदाचन ।
51औचित्यप्रच्युताचारो युक्त्या स्वार्थं न साधयेत् ।
52वर्जयेदिन्द्रियजयी विजने जननीमपि ।
53न तीव्रतपसां कुर्याद् धैर्यविप्लवचापलम् ।
54न नित्यकलहाक्रान्ते सक्तिं कुर्वीत कैतवे ।
55प्रभुप्रसादे सत्याशां न कुर्यात् स्वप्नसंनिभे ।
56न लोकायतवादेन नास्तिकत्वेऽर्पयेद् धियम् ।
57अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत् ।
58सन्धिं विधाय रिपुणा न निःशङ्कः सुखी भवेत् ।
59हितोपदेशं श्रुत्वा तु कुर्वीत च यथोचितम् ।
60बह्वन्नाशनलोभेन रोगी मन्दरुचिर्भवेत् ।
61यत्नेन शोषयेद्दोषान्न तु तीव्रव्रतैस्तनुम् ।
62स्थिरताशां न बध्नीयाद् भुवि भावेषु भाविषु ।
63विडम्बयेन्न वृद्धानां वाक्यकर्मवपुःक्रियाः ।
64नोपदेशेऽप्यभव्यानां मिथ्या कुर्यात् प्रवादिताम् ।
65न तीव्रदीर्घवैराणां मन्युं मनसि रोपयेत् ।
66न सतीनां तपोदीप्तं कोपयेत् क्रोधपावकम् ।
67गुरुमाराधयेद् भक्त्या विद्याविनयसाधनम् ।
68वसु देयं स्वयं दद्याद् बलाद् यद् दापयेत् परः ।
69साधयेद्धर्मकामार्थान् परस्परमबाधकान् ।
70स्वकुलान्न्यूनतां नेच्छेत् तुल्यः स्यादथवाधिकः ।
71कुर्यात्तीर्थाम्बुभिः पूतमात्मानं सततोज्ज्वलम् ।
72आपत्कालोपयुक्तासु कलासु स्यात् कृतश्रमः ।
73अरागभोगसुभगः स्यात् प्रसक्तविरक्तधीः ।
74अशिष्यसेवया लाभलोभेन स्याद् गुरुर्लघुः ।
75नष्टशीलां त्यजेन्नारीं रागवृद्धिविधायिनीम् ।
76न गीतवाद्याभिरतिर्विलासव्यसनी भवेत् ।
77उद्वेजयेन्न तैक्ष्ण्येन रामाः कुसुमकोमलाः ।
78पद्मवन्न नयेत् कोषं धूर्तभ्रमरभोज्यताम् ।
79नोपदेशामृतं प्राप्तं भग्नकुम्भनिभस्त्यजेत् ।
80न पुत्रायत्तमैश्वर्यं कार्यमार्यैः कदाचन ।
81न शत्रुशेषदूष्याणां स्कन्धे कार्यं समर्पयेत् ।
82न लब्धे प्रभुसंमाने फलक्लेशं समाश्रयेत् ।
83श्रुतिस्मृत्युक्तमाचारं न त्यजेत् साधुसेवितम् ।
84श्रियः कुर्यात् पलायिन्या बन्धाय गुणसंग्रहम् ।
85पदाग्निं गां गुरुं देवं न चोच्छिष्टः स्पृशेद् घृतम् ।
86प्रतिलोमविवाहेषु न कुर्यादुन्नतिस्पृहाम् ।
87रूपार्थकुलविद्यादिहीनं नोपहसेन्नरम् ।
88बन्धूनां वारयेद् वैरं नैकपक्षाश्रयो भवेत् ।
89परोपकारं संसारसारं कुर्वीत सत्त्ववान् ।
90विभृयाद् बन्धुमधनं मित्रं त्रायेत दुर्गतम् ।
91न कुर्यादभिचारोग्रवध्यादिकुहकाः क्रियाः ।
92ब्रह्मचारी गृहस्थः स्याद् वानप्रस्थो यतिः क्रमात् ।
93कुर्याद् व्ययं स्वहस्तेन प्रभूतधनसंपदाम् ।
94जन्मावधि न तत् कुर्यादन्ते संतापकारि यत् ।
95जराशुभ्रेषु केशेषु तपोवनरुचिर्भवेत् ।
96पुनर्जन्मजराच्छेदकोविदः स्याद् वयःक्षये ।
97परमात्मानमन्तेऽन्तर्ज्योतिः पश्येत् सनातनम् ।
98प्राप्तावधिरजीवेऽपि जीवेत् सुकृतसंततिः ।
99अन्ते संतोषदं विष्णुं स्मरेद्धन्तारमापदाम् ।
100श्रव्या श्रीव्यासदासेन समासेन सतां मता ।

