᱒᱔ ᱥᱞᱚᱠ
1
तं दशशताक्षं शीतलकटाक्षम् ।
2उग्रमपि दक्षं भासुरकटाक्षम् ।
3आर्तजनपक्षं रक्षककटाक्षम् ।
4देवमसदृक्षं पावनकटाक्षम् ।
5तं पुरुषमीडे स्तुत्यगणलक्षम् ।
6यत्र तव दृष्टिर्वज्रधर हृद्या ।
7तत्र वरलक्ष्मीः सन्ततमशून्या ।
8तत्र बलमुग्रं शत्रुमदहारि ।
9यं तव बलारे पावयति दृष्टिः ।
10यत्र तव पूर्णा दृष्टिरतिभद्रा ।
11किं नु सुकृतादी किं दुरितखादी ।
12भक्तिरसिकानां पापततिखादी ।
13पापततिखादी यत्र स कृपावान् ।
14तस्य जगदर्थे सर्वमपि कार्यम् ।
15पक्वसुकृतादी यत्र सविचित्रः ।
16ये गिरिशनाम्रा ये च हरिनाम्ना ।
17शक्तिरिति नाम्ना ये बहुलधाम्ना ।
18त्वामयि भजन्ते भक्त्यतिशयेन ।
19तेष्वपि दिवो भूनाथ तव दक्षाः ।
20त्वत्पदमजानन्नप्यज पवित्रम् ।
21दृष्टिवशतस्ते प्रेष्ठफलधारा ।
22पावनकटाक्षैः संशमय पापम् ।
23मङ्गलकटाक्षैः साधय ममेष्टम् ।
24भासुरकटाक्षैर्भासयतु मह्यम् ।

