᱑᱔᱔ ᱥᱞᱚᱠ
श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम् ।
2अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये ।
3स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् ।
4ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु ।
5नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् ।
6सदैव वासनात्यागः शमोऽयमिति शब्दितः ।
7विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा ।
8निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता ।
9संसारबन्धनिर्मुक्तिः कथं स्यान्मे दयानिधे ।
10उक्तसाधनयुक्तेन विचारः पुरुषेण हि ।
11नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः ।
12कोऽहं कथमिदं जातं को वा कर्तास्य विद्यते ।
13नाहं भूतगणो देहो नाहं चाक्षगणस्तथा ।
14अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते ।
15एतयोर्यदुपादानमेकं सूक्ष्मं सदव्ययम् ।
16अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः ।
17आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः ।
18आत्मा नियामकश्चान्तर्देहो नियम्यबाह्यकः ।
19आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः ।
20आत्मा प्रकाशकः स्वच्छो देहस्तामस उच्यते ।
21आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः ।
22आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् ।
23देहोऽहमित्ययं मूढो मत्वा तिष्ठत्यहो जनः ।
24ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः ।
25निर्विकारो निराकारो निरवद्योऽहमव्ययः ।
26निरामयो निराभासो निर्विकल्पोऽहमाततः ।
27निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः ।
28निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः ।
29स्वदेहं शोभनं त्यक्त्वा पुरुषाख्यं च संमतम् ।
30स्वात्मानं शृणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् ।
31अहंशब्देन विख्यात एक एव स्थितः परः ।
32अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः ।
33अहं विकारहीनस्तु देहो नित्यं विकारवान् ।
34यस्मात्परमिति श्रुत्या तथा पुरुषलक्षणम् ।
35सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते ।
36असङ्गः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च ।
37तत्रैव च समाख्यातः स्वयंज्योतिर्हि पूरुषः ।
38प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः ।
39लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च ।
40एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः ।
41इत्यात्मदेहभानेन प्रपञ्चस्यैव सत्यता ।
42इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् ।
43चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् ।
44रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी ।
45उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते ।
46व्याप्यव्यापकता मिथ्या सर्वमात्मेति शासनात् ।
47श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि ।
48दोषोऽपि विहितः श्रुत्या मृत्योर्मृत्युं स गच्छति ।
49ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः ।
50ब्रह्मैव सर्वनामानि रूपाणि विविधानि च ।
51सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् ।
52स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः ।
53यत्राज्ञानाद्भवेद्द्वैतमितरस्तत्र पश्यति ।
54यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः ।
55अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः ।
56अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् ।
57स्वप्नो जागरणेऽलीकः स्वप्नेऽपि न हि जागरः ।
58वयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् ।
59यद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम् ।
60यथा मृदि घटो नाम कनके कुण्डलाभिधा ।
61यथैव व्योनि नीलत्वं यथा नीरं मरुस्थले ।
62यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा ।
63यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् ।
64घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः ।
65सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः ।
66कार्यकारणता नित्यमास्ते घटमृदोर्यथा ।
67गृह्यमाणे घटे यद्वन्मृत्तिका भाति वै बलात् ।
68सदैवात्मा विशुद्धोऽपि ह्यशुद्धो भाति वै सदा ।
69यथैव मृन्मयः कुम्भस्तद्वद्देहोऽपि चिन्मयः ।
70सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका ।
71घटत्वेन यथा पृथ्वी पदत्वेनैव तन्तवः ।
72कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् ।
73पुरुषत्वेन वै स्थाणुर्जलत्वेन मरीचिका ।
74गृहत्वेनैव काष्ठानि खड्गत्वेनैव लोहता ।
75यथा वृक्षविपर्यासो जलाद्भवति कस्यचित् ।
76पोतेन गच्छतः पुंसः सर्वं भातीव चञ्चलम् ।
77पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित् ।
78चक्षुर्भ्यां भ्रमशीलाभ्यां सर्वं भाति भ्रमात्मकम् ।
79अलातं भ्रमणेनैव वर्तुलं भाति सूर्यवत् ।
80महत्त्वे सर्ववस्तूनामणुत्वं ह्यतिदूरतः ।
81सूक्ष्मत्वे सर्ववस्तूनां स्थूलत्वं चोपनेत्रतः ।
82काचभूमौ जलत्वं वा जलभूमौ हि काचता ।
83यद्वदग्नौ मणित्वं हि मणौ वा वह्निता पुमान् ।
84अभ्रेषु सत्सु धावत्सु धावन्निव यथा शशी ।
85यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् ।
86यथा शशी जले भाति चञ्चलत्वेन कस्यचित् ।
87एवमात्मनि नज्ञाते देहाध्यासो हि जायते ।
88सर्वमात्मतया ज्ञातं जगत्स्थावरजङ्गमम् ।
89आत्मानं सततं जानन्कालं नय महामते ।
90उत्पन्नेऽप्यात्मविज्ञाने प्रारब्धं नैव मुञ्चति ।
91तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते ।
92कर्म जन्मान्तरकृतं प्रारब्धमिति कीर्तितम् ।
93स्वप्नदेहो यथाभ्यस्तस्तथैवायं हि देहकः ।
94उपादानं प्रपञ्चस्य मृद्भाण्डस्येव कथ्यते ।
95यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ।
96रज्जुरूपे परिज्ञाते सर्पभ्रान्तिर्न तिष्ठति ।
97देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः ।
98क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।
99उच्यतेऽज्ञैर्बलाच्चैतत्तदानर्थद्वयागमः ।
100त्रिपञ्चाङ्गान्यथो वक्ष्ये पूर्वोक्तस्यैव सिद्धये ।
101नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मनः ।
102यमो हि नियमस्त्यागो मौनं देशश्च कालतः ।
103प्राणसंयमनं चैव प्रत्याहारश्च धारणा ।
104सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ।
105सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ।
106त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनात् ।
107यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
108वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते ।
109इति वा तद्भवेन्मौनं सतां सहजसंज्ञितम् ।
110आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते ।
111कलनात्सर्वभूतानां ब्रह्मादीनां निमेषतः ।
112सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ।
113सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् ।
114यन्मूलं सर्वभूतानां यन्मूलं चित्तबन्धनम् ।
115अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते ।
116दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् ।
117द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् ।
118चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ।
119निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ।
120ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ।
121विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् ।
122यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ।
123ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ।
124निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ।
125एवं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् ।
126ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् ।
127समाधौ क्रियमाणे तु विघ्ना आयान्ति वै बलात् ।
128लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता ।
129भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता ।
130ये हि वृत्तिं जहत्येनां ब्रह्माख्यां पावनीं पराम् ।
131ये हि वृत्तिं विजानन्ति ये ज्ञात्वा वर्धयन्त्यपि ।
132येषां वृत्तिः समावृद्धा परिपक्वा च सा पुनः ।
133कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः ।
134निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना ।
135कार्ये कारणतायाता कारणे न हि कार्यता ।
136अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरः ।
137अनेनैव प्रकारेण वृत्तिर्ब्रह्मात्मिका भवेत् ।
138कारणं व्यतिरेकेण पुमानादौ विलोकयेत् ।
139कार्ये हि कारणं पश्येत्पश्चात्कार्यं विसर्जयेत् ।
140भावितं तीव्रवेगेण वस्तु यन्निश्चयात्मना ।
141अदृश्यं भावरूपं च सर्वमेतच्चिदात्मकम् ।
142दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् ।
143एभिरङ्गैः समायुक्तो राजयोग उदाहृतः ।
144परिपक्वं मनो येषां केवलोऽयं च सिद्धिदः ।

