Sanskrit
Upanishad

बिल्वोपनिषत्

Bilva Upanishad

33 shloka

33 shloka

1

अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा प्रणम्येति होवाच । अधीहि भगवन् सर्वविद्यां सर्वरहस्यवरिष्ठां सदा सद्भिः पूज्यमानां निगूढाम् । कया च पूजया सर्वपापं व्यपोह्य परात्परं शिवसायुज्यमाप्नोति ? केनैकेन वस्तुना मुक्तो भवति ? तं होवाच भगवान् सदाशिवः ।

2

न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन ।

3

इति ब्रुवन्तं परमेश्वरं पुनः प्रणम्येति होवाच ॥

4

भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण ।

5

इति पुनः पृच्छन्तं वामदेवमालिङ्गयेति होवाच ॥

6

बुद्विमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम ।

7

द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव ।

8

बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा ।

9

प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च

10

सद्योजातादिभिर्मन्त्रैर्नमस्कृत्य पुनः पुनः ।

11

देवीं ध्यायेत्तथा वृक्षे विष्णुरूपं च सर्वदा ।

12

वामदक्षिणमध्यस्थं ब्रह्मविष्णुशिवात्मकम् ।

13

पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये ।

14

मम सायुज्यमाप्नोति नात्र कार्या विचारणा ।

15

पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ।

16

पृष्ठभागेऽमृतं न्यस्तं देवैर्ब्रह्मादिभिः पुरा ।

17

तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।

18

तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।

19

इह लोकेऽखिलं सौख्यं प्राप्नोत्यन्ते पुरे मम ।

20

सोदकैर्बिल्वपत्रैश्च यः कुर्यान्मम पूजनम् ।

21

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।

22

त्रिसुपर्णं त्रिऋचां रूपं त्रिसुपर्ण त्रयीमयम् ।

23

कालत्रयं च सवनत्रयं लिङ्गत्रयं त्रिपात् ।

24

देवेषु ब्राह्मणोऽहं हि त्रिसुपर्णमयाचितम् ।

25

दद्याद्ब्रह्मभ्रूणवीरहत्यायाश्चान्यपातकैः ।

26

त्रिसुपर्णोपनिषदः पठनात्पङ्क्तिपावनः ।

27

त्रिसुपर्णश्रुतिर्ह्येषा निष्कृतौ त्रिदले रता ।

28

अखण्डानन्दसंबोधमयो यस्मादहं मुने ।

29

अमृतं मोक्षवाचन्तु तेनास्मदवकुण्ठनात् ।

30

उत्तानभागपर्णेन मूर्ध्नि मे न्युब्जमर्पयेत् ।

31

येन केन प्रकारेण बिल्वकेनापि मां यज ।

32

बिल्वं विधानतः स्थाप्य वर्धयित्वा च तद्दलैः ।

33

य एतदधीते ब्रह्माऽब्रह्मा भवति । स्वर्णस्तेय्यस्तेयी भवति । सुरापाय्यपायी भवति । गुरुवधूगाम्यगामी भवति । महापातकोपपातकेभ्यः पूतो भवति । न च पुनरावर्तते । न च पुनरावर्तते । न च पुनरावर्तते । ॐ सत्यम् ॥