۸۷ شلوکا
तत्त्वंपदार्थशुद्ध्यर्थं गुरुः शिष्यं वचोऽब्रवीत् ।
2न त्वं देहोऽसि दृश्यत्वादुपजात्यादिमत्त्वतः ।
3अदृश्यो रूपहीनस्त्वं जातिहीनोऽप्यभौतिकः ।
4न भवानिन्द्रियाण्येषां करणत्वेन या श्रुतिः ।
5नानैतान्येकरूपस्त्वं भिन्नस्तेभ्यः कुतः शृणु ।
6न तेषां समुदायोऽसि तेषामन्यतमस्य च ।
7प्रत्येकमपि तान्यात्मा नैव तत्र नयं शृणु ।
8नानात्माभिमतं नैव विरुद्धविषयत्वतः ।
9न मनस्त्वं न वा प्राणो जडत्वादेव चैतयोः ।
10क्षुत्तृड्भ्यां पीडितः प्राणो ममायं चेति भेदतः ।
11सुप्तौ लीनास्ति या बोधे सर्वं व्याप्नोति देहकम् ।
12नानारूपवती बोधे सुप्तौ लीनातिचञ्चला ।
13सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्यतः ।
14प्रमाणं बोधयन्तं तं बोधं मानेन ये जनाः ।
15विश्वमात्मानुभवति तेनासौ नानुभूयते ।
16ईदृशं तादृशं नैतन्न परोक्षं सदेव यत् ।
17इदंत्वेनैव यद्भाति सर्वं तच्च निषिध्यते ।
18सत्यं ज्ञानमनन्तं च ब्रह्मलक्षणमुच्यते ।
19सति देहाद्युपाधौ स्याज्जीवस्तस्य नियामकः ।
20अपेक्ष्यतेऽखिलैर्मानैर्न यन्मानमपेक्षते ।
21अतो हि तत्त्वमस्यादिवेदवाक्यं प्रमाणतः ।
22शोधिते त्वंपदार्थे हि तत्त्वमस्यादि चिन्तितम् ।
23देहेन्द्रियादिधर्मान्यः स्वात्मन्यारोपयन्मृषा ।
24देहेन्द्रियादिसाक्षी यस्तेभ्यो भाति विलक्षणः ।
25वेदान्तवाक्यसंवेद्यविश्वातीताक्षराद्वयम् ।
26सामानाधिकरण्यं हि पदयोस्तत्व मोर्द्वयोः ।
27भिन्नप्रवृत्तिहेतुत्वे पदयोरेकवस्तुनि ।
28सामानाधिकरण्यं तत्संप्रदायिभिरीरितम् ।
29अयं सः सोऽयमितिवत्संबन्धो भवति द्वयोः ।
30परस्परविरुद्धं स्यात्ततो भवति लक्षणा ।
31मानान्तरोपरोधाच्च मुख्यार्थस्यापरिग्रहे ।
32त्रिविधा लक्षणा ज्ञेया जहत्यजहती तथा ।
33वाच्यार्थमखिलं त्यक्त्वा वृत्तिः स्याद्या तदन्विते ।
34वाच्यार्थस्यैकदेशस्य प्रकृते त्याग इष्यते ।
35वाच्यार्थमपरित्यज्य वृत्तिरन्यार्थके तु या ।
36न संभवति साप्यत्र वाच्यार्थेऽतिविरोधतः ।
37वाच्यार्थस्यैकदेशं च परित्यज्यैकदेशकम् ।
38सोऽयं विप्र इदं वाक्यं बोधयत्यादितस्तथा ।
39अतस्तयोर्विरुद्धं तत्तत्कालत्वादिधर्मकम् ।
40तथैव प्रकृते तत्त्वमसीत्यत्र श्रुतौ शृणु ।
41सर्वज्ञत्वपरोक्षादीन्परित्यज्य ततःपदात् ।
42तत्त्वमोः पदयोरैक्यमेव तत्त्वमसीत्यलम् ।
43अहं ब्रह्मेति विज्ञानं यस्य शोकं तरत्यसौ ।
44तत्त्वमोर्बोध्यतेऽथापि पौर्वापर्यानुसारतः ।
45अपरोक्षयितुं लोके मूढैः पण्डितमानिभिः ।
46वेदवाक्यैरतः किं स्याद्गुरुणेति न सांप्रतम् ।
47अनादाविह संसारे बोधको गुरुरेव हि ।
48अद्वैते ब्रह्मणि स्थेयं प्रत्यब्रह्मात्मना सदा ।
49प्रतिपाद्यं तदेवात्र वेदान्तैर्न द्वयं जडम् ।
50वेदान्तैस्तद्द्वयं सम्यङ्निर्णीतं वस्तुतो नयात् ।
51शुद्धे कथमशुद्धः स्यादृश्यं मायामयं ततः ।
52विद्यते न स्वतः सत्त्वं नासतः सत्त्वमस्ति वा ।
53सदसन्न विरुद्धत्वादतोऽनिर्वाच्यमेव तत् ।
54प्रविष्टो जीवरूपेण स एवात्मा भवान्परः ।
55जीवभावमनुप्राप्तः स एवात्मासि बोधतः ।
56कर्तृत्वादीनि यान्यासंस्त्वयि ब्रह्माद्वये परे ।
57अत्रैव शृणु वृत्तान्तमपूर्वं श्रुतिभाषितम् ।
58स्वगृहे स्वाङ्गणे सुप्तः प्रमत्तः सन्कदाचन ।
59बद्ध्वा देशान्तरं चौरैर्नीतः सन्गहने वने ।
60निक्षिप्तो विपिनेऽतीव कुशकण्टकवृश्चिकैः ।
61व्यालादिदुष्टसत्वेभ्यो महारण्ये भयातुरः ।
62क्रियमाणे विलुठने विशीर्णाङ्गोऽसमर्थकः ।
63बन्धमुक्तौ तथा देशप्राप्तावेव सुदुःखधीः ।
64तथा रागादिभिर्वर्गैः शत्रुभिर्दुःखदायिभिः ।
65ब्रह्मानन्दे प्रमत्तः स्वाज्ञाननिद्रावशीकृतः ।
66अद्वयानन्दरूपात्त्वां प्रच्याव्यातीव धूर्तकैः ।
67सर्वदुःखनिदानेषु शरीरादित्रयेषु च ।
68प्रवेशितोऽसि सृष्टोऽसि बद्धः स्वानन्ददृष्टितः ।
69जन्ममृत्युजरादोषनरकादिपरम्पराम् ।
70अविद्याभूतबन्धस्य निवृत्तौ दुःखदस्य च ।
71यथा गान्धारदेशीयश्चिरं देवाद्दयालुभिः ।
72सः स्वस्थैरुपदिष्टश्च पण्डितो निश्चितात्मकः ।
73गत्वा गान्धारदेशं स स्वगृहं प्राप्य पूर्ववत् ।
74त्वमप्येवमनेकेषु दुःखदायिषु जन्मसु ।
75वर्णाश्रमाचारपरोऽवाप्तपुण्यमहोदयः ।
76विधिवत्कृतसंन्यासो विवेकादियुतः सुधीः ।
77पण्डितस्तत्र मेधावी युक्त्या वस्तु विचारयन् ।
78अतो ब्रह्मात्मविज्ञानमुपदिष्टं यथाविधि ।
79भूत्वा विमुक्तबन्धस्त्वं छिन्नद्वैतात्मसंशयः ।
80वस्तुतो निष्प्रपञ्चोऽसि नित्यमुक्तः स्वभावतः ।
81न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
82श्रुतिसिद्धान्तसारोऽयं तथैव त्वं स्वया धिया ।
83साक्षात्कृत्वा परिच्छिन्नाद्वैतब्रह्माक्षरं स्वयम् ।
84विचारणीया वेदान्ता वन्दनीयो गुरुः सदा ।
85गुरुर्ब्रह्म स्वयं साक्षात्सेव्यो वन्द्यो मुमुक्षुभिः ।
86यावदायुस्त्वया वन्द्यो वेदान्तो गुरुरीश्वरः ।
87भावाद्वैतं सदा कुर्यात्क्रियाद्वैतं न कर्हिचित् ।

