श्लोक 111
कृत्स्नस्य तन्त्रस्य गृहीतधाम्नश्चिकित्सिताद्विप्रसृतस्य दूरम् ।
2परीक्ष्य हेत्वामयलक्षणानि चिकित्सितज्ञेन चिकित्सिकेन ।
3छिन्नोद्भवाम्बुधरधन्वयवासविश्वैर्दुःस्पर्शपर्पटकमेघकिराततिक्तैः ।
4क्षुद्रामृतानागरपुष्कराह्वयैः कृतः कषायः कफमारुतोत्तरे ।
5आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः ।
6द्राक्षाभयापर्पटकाब्दतिक्ताक्वाथं सशम्याकफलं विदध्यात् ।
7निदिग्धिकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम् ।
8दुरालभापर्पटकप्रियङ्गुभूनिम्बवासाकटुरोहिणीनाम् ।
9फलत्रिकं दारुनिशाविशालामुस्तं च निष्क्वाथ्य निशांशकल्कम् ।
10सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश्च कृतः कषायः ।
11शुण्ठीं समुस्तातिविषागुडूचीं पिबेज्जलेन क्वथितां समांशाम् ।
12पुनर्नवादार्व्यभयागुडूचीः पिबेत्समूत्रा महिषाक्षयुक्ताः ।
13मुस्ताखुपर्णीफलदारुशिग्रुक्वाथः सकृष्णाकृमिशत्रुकल्कः ।
14एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः ।
15एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुलजलैर्लुलितानि पीत्वा ।
16हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम् ।
17वासागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम् ।
18रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम् ।
19एरण्डबिल्वबृहतीद्वयमातुलुङ्गपाषाणभित्त्रिकटमूलकृतं कषायः ।
20हिङ्गूग्रगन्धाविडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम् ।
21चूर्णं समं रुचकहिङ्गुमहौषधानां शुण्ठ्यम्बुना कफसमीरणसंभवासु ।
22पूतीकपत्रगजचिर्भिटचव्यवह्नि व्योषं च संस्तरचितं लवणोपधानम् ।
23द्विरुत्तरा हिङ्गु वचा सकुष्ठा सुवर्चिका चेति विडं च चूर्णम् ।
24शृङ्गीकटुत्रिकफलत्रयकण्टकारीभार्गीसपुष्करजटा लवणानि पञ्च ।
25नादेयीकुटजार्कशिग्रुबृहतीस्नुग्बिल्वभल्लातक-
26चव्यम्लवेतसकटुत्रिकतित्तिडीकतालीसजीरकतुगादहनैः समांशैः ।
27तालीसचव्यमरिचं सदृशं द्विरंशं मूलं तुगां मगधजां त्रिगुणां च शुण्ठीम् ।
28सुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रमविवर्धितमूर्ध्वमन्त्यात् ।
29सिन्धूत्थहिङ्गुत्रिफलायवानीव्योषैर्गुडांशैर्गुडिकां प्रकुर्यात् ।
30अयस्तिलत्र्यूषणकोलभागैः सर्वैः समं माक्षिकधातुचूर्णम् ।
31गुडेन शुण्ठीमथवोपकुल्यां पथ्यातृतीयामथ दाडिमं च ।
32हरीतकीनागरमुस्तचूर्णं गुडेन सार्धं गुटिका विधेया ।
33वटप्ररोहं मधु कुष्ठमुत्पलं सलाजचूर्णं गुडिकां प्रकल्पयेत् ।
34मनःशिलामागधिकोषणानां चूर्णं कपित्थाम्लरसेन युक्तम् ।
35दूर्वारसो दाडिमपुष्पजो वा घ्राणप्रवृत्तेऽसृजि नस्यमुक्तम् ।
36धात्रीरसः सर्जरसः सपाक्यः सौवीरपिष्टश्च तदासुतश्च ।
37दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः ।
38गण्डीरिकचित्रकमार्कवार्ककुष्ठद्रुमत्वग्लवणैः समूत्रैः ।
39सिन्दूरगुग्गुलुरसाञ्जनसिक्थतुत्थैस्तुल्यांशकैः कटुकतैलमिदं विपक्वम् ।
40सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः ।
41सर्पिर्गुडूचीवृषकण्टकारीक्वाथेन कल्केन च सिद्धमेतत् ।
42वृषखदिरपटोलपत्रनिम्बत्वगमृततामलकीकषायकल्कैः ।
43त्वङ्मांसशोणितगतैर्दोषैः प्रकुपितैर्जनितः
44अमृतापटोलपिचुमर्दधावनीत्रिफलाकरञ्जवृषकल्कवारिभिः ।
45खण्डान् कुष्माण्डकानामथ पचनविधिस्विन्नशुष्काज्यभृष्टान्
46विपाच्य मूत्राम्ब्लमधूनि दन्तीपिण्डीतकृष्णाविडधूमकुष्ठैः ।
47सशर्करं कुङ्कुममाज्यभृष्टं नस्यं विधेयं पवनासृगुत्थे ।
48पथ्याक्षधात्रीफलमध्यबीजैस्त्रिद्व्येकभागैर्विदधीत वर्तिम् ।
49हरीतकीसैन्धवतार्क्ष्यशैलैः सगैरिकैः स्वच्छजलप्रपिष्टैः ।
50ससैन्धवं लोध्रमथाज्यभृष्टं सौवीरपिष्टं सितवस्त्रबद्धम् ।
51हन्त्यर्जुनं शर्करयाब्धिफेनो नक्तान्धतां गोशकृता च कृष्णा ।
52पुष्पाख्यतार्क्ष्यससितोदधिफेनशङ्खसिन्धूत्थगैरिकशिलामरिचैः समांशैः ।
53मुस्तोशीररजोयवासमरिचाः सिन्धूद्भवं कट्फलं
54मञ्जिष्ठामधुकोत्पलोदधिकफत्वक्सेव्यगोरोचना-
55क्वाथः समुस्तातिविषेन्द्रदारुकलिङ्गपाठाकटुरोहिणीनाम् ।
56यवाग्रजं तेजवतीं सपाठां रसाञ्जनं दारुनिशां सकृष्णाम् ।
57दार्वीगुडूचीसुमनाप्रवालाद्राक्षायवासत्रिफलाकषायः ।
58कुष्ठं दार्वी लोध्रमब्दं समङ्गा पाठा तिक्ता तेजनी पीतिका च ।
59सौवीरशुक्तार्द्रकमातुलुङ्गमांसै रसैर्गुग्गुलुसैन्धवश्च ।
60वासानिम्बपटोलपर्पटफलश्रीचव्यदार्व्यम्बुदैः
61दार्वीपर्पटनिम्बवत्सककणादुःस्पर्शयष्टीवृषास्
62शुक्लैरण्डान्मूलमथोग्रा शतपुष्पा पुष्पोद्भूतं यच्च बृहत्यास्तगरं च ।
63क्वाथे मुष्ककभस्मनोऽनलशिखादग्धं क्षिपेच्छङ्खकं
64निशासयष्टीमधुपद्मकोत्पलैः प्रियङ्गुकासावरलोध्रचन्दनैः ।
65जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा-
66शिरीषपुष्पं स्वरसेन भावितं सहस्रकृत्वो मरिचं सिताह्वयम् ।
67मयूरपित्तेन तु तण्डुलीयकं काकाण्डयुक्तं प्रपिबेदनल्पम् ।
68तैलं तिलानां पललं गुडं च क्षीरं तथार्कं सममेव पीतम् ।
69आगारधूमो महिषाक्षयुक्तः सवाजिगन्धाघृततण्डुलीयकः ।
70मांसीसेव्यालकौन्तीजलजलदशिलारोचनापद्मकेशी-
71सिद्धार्थत्रिफलाशिरीषकटभीश्वेताकरञ्जामृता-
72कर्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतकैस्
73त्रिकटुकदलकुङ्कुमग्रन्थिकक्षारसिंहीनिशाकुष्ठसिद्धार्थयुग्माम्बुशक्राह्वयैः
74नतमधुककरञ्जलाक्षापटोलीसमङ्गावचापाटलीहिङ्गुसिद्धार्थसिंहीनिशायुग्लतारोहिणी-
75दार्वी हरिद्रा कुटजस्य बीजं सिंही च यष्टीमधुकं च तुल्यम् ।
76बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पली च ।
77शृङ्गीं सकृष्णातिविषां विचूर्ण्य लेहं विदध्यान्मधुना शिशूनाम् ।
78धात्रीचूर्णस्य कंसं स्वरसपरिगतः क्षौद्रसर्पिः समांशं
79यष्टीतुगासैन्धवपिप्पलीभिः सशर्कराभिस्त्रिफला प्रयुक्ता ।
80चूर्णं श्वदंष्ट्रामलकामृतानां लिहेत्ससर्पिर्मधुना च युक्तम् ।
81निम्बस्य तैलं प्रकृतिस्थमेवं नस्यां निषिक्तं विधिना यथावत् ।
82गोक्षुरकः क्षुरकः शतमूली वानरि नागबलातिबला च ।
83मधुकां मधुना घृतेन च प्रलिहन् क्षीरमनुप्रयोजयेत् ।
84यष्टीकषायं लवणाग्रयुक्तं कलिङ्गकृष्णाफलकल्कमिश्रम् ।
85हरीतकीभिः क्वथितं सुवीरं दन्त्यङ्घ्रिकृष्णाविडचूर्णयुक्तम् ।
86रास्नाराठफलत्रयामृतलतायुक्पञ्चमूलीबला-
87तैलं बलाक्वथितकल्कसुगन्धिगर्भसिद्धं पयोदधितुषोदकमस्तुचुक्रैः ।
88नस्यं विदध्याद्गुडनागरं वा ससैन्धवां मागधिकामथोवा ।
89श्रेष्ठः पर्पटको ज्वरेषु विहितस्तृष्णासु पञ्चाम्लिको
90वृषोऽश्रपित्ते कुटजोऽतिसारे भल्लातमर्शस्सु गरेषु हेम ।
91अक्ष्यामयेषु त्रिफला वदन्ति शूलेषु सर्वेषु तथा रसोनम् ।
92शंसन्ति वाजीकरणे श्वदंष्ट्रामुरःक्षते नागबला बलां च ।
93इत्येते विधिविहिताः प्रसिद्धयोगाः सिद्ध्यर्थं विनिगदिता भिषग्वराणाम् ।
94संधारणानशनजागरणोच्चभाषाव्यायामयानकटुतिक्तकषायरूक्षैः ।
95कट्वाम्लमद्यलवणोष्णविदाहितीक्ष्णक्रोधानलातपपरिश्रमशुष्कशाकैः ।
96स्वप्नाद्दिवा मधुरशीतलमत्समांसगुर्वाम्लपिच्छलतिलेक्षुपयोविकारैः ।
97इत्येवमेते क्रमशो द्विशो वा दोषाः प्रवृद्धा युगपत्त्रयो वा ।
98पारुष्यसंकोचनतोदशूलश्यामत्वमङ्गव्यथभङ्गचेष्टान् ।
99परिस्रवस्वेदविदाहरागदौर्गन्धिसंक्लेदविपाककोपान् ।
100श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपान् ।
101एतानि लिङ्गानि च तत्कृतानां सर्वामयानामपि नैकनाम्नाम् ।
102आलस्यतन्द्राहृदयाविशुद्धिदोषाप्रवृत्तिक्षुदभावमूत्रैः ।
103स्निग्धोष्णस्थिरवृष्यबल्यलवणस्वाद्वम्लतैलातप-
104तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनं
105रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्टीवनं
106आमं जयेल्लङ्घनकोलपेयालघ्वन्नसूपोदकतिक्तयूषैः ।
107हेमन्तवर्षाशिशिरेषु वायोः पित्तस्य तोयान्तनिदाघयोश्च ।
108कफस्य कोपे वमनं सनस्यं विरेचनं पित्तभवे विकारे ।
109वातोऽम्लतैललवणैर्मधुरान्नपानैः पित्तं तथा मधुरतिक्तकषायशीतैः ।
110बुद्ध्वैतदन्यदपि यत्तदनुक्तमत्र युक्त्या स्वयं समधिगम्य यथानुरूपम् ।
111गुणाधिकं योगशतं निबध्य प्राप्तं मया पुण्यमनुत्तरं यत् ।

