श्लोक 154
श्रीगुरुचरणद्वन्द्वं वन्देऽहं मथितदुःसहद्वन्द्वम् ।
2देशिकवरं दयालुं वन्देऽहं निहतनिखिलसंदेहम् ।
3संसारदावपावकसंतप्तः सकलसाधनोपेतः ।
4अस्ति स्वयमित्यस्मिन्नर्थे कस्यास्ति संशयः पुंसः ।
5नामिति वेत्ति योऽसौ सत्यं ब्रह्मैव वेत्ति नास्तीति ।
6ब्रह्म त्वमेव तस्मान्नाहं ब्रह्मेति मोहमात्रमिदम् ।
7न क्लेशपञ्चकमिदं भजते कृतकोशपञ्चकविवेकः ।
8अन्नप्राणमनोमयविज्ञानानन्दपञ्चकोशानाम् ।
9वपुरिदमन्नमयाख्यः कोशो नात्मा जडो घटप्रायः ।
10कोशः प्राणमयोऽयं वायुविशेषो वपुष्यवच्छिन्नः ।
11कुरुते वपुष्यहंतां गेहादौ यः करोति ममतां च ।
12सुप्तौ स्वयं विलीना बोधे व्याप्ता कलेबरं सकलम् ।
13सुप्तिगतैः सुखलेशैरभिमनुते यः सुखी भवामीति ।
14यः स्फुरति बिम्बभूतः स भवेदानन्द एव सकलात्मा ।
15अन्नमयादेरस्मादपरं यदि नानुभूयते किंचित् ।
16स्वयमेवानुभवत्वाद्यद्यप्येतस्य नानुभाव्यत्वम् ।
17अनुभवति विश्वमात्मा विश्वेनासौ न चानुभूयेत ।
18तदिदं तादृशमीदृशमेतावत्तावदिति च यन्न भवेत् ।
19इदमिदमिति प्रतीते वस्तुनि सर्वत्र बाध्यमानेऽपि ।
20नावेद्यमपि परोक्षं भवति ब्रह्म स्वयंप्रकाशत्वात् ।
21सति कोशशक्त्युपाधौ संभवतस्तस्य जीवतेश्वरते ।
22सति सकलदृश्यबाधे न किमप्यस्तीति लोकसिद्धं चेत् ।
23एवं मतिरहितानां तत्त्वमसीत्यादिवाक्यचिन्तनया ।
24तस्मात्पदार्थशोधनपूर्वं वाक्यस्य चिन्तयन्नर्थम् ।
25देहेन्द्रियादिधर्मानात्मन्यारोपयन्नभेदेन ।
26देहस्य चेन्द्रियाणां साक्षी तेभ्यो विलक्षणत्वेन ।
27वेदावसानवाचा संवेद्यं सकलजगदुपादानम् ।
28विविधोपाधिविमुक्तं विश्वातीतं विशुद्धमद्वैतम् ।
29सामानाधिकरण्यं तदनु विशेषणविशेष्यता चेति ।
30एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् ।
31प्रत्यक्त्वपरोक्षत्वे परिपूर्णत्वं च सद्वितीयत्वम् ।
32मानान्तरोपरोधान्मुख्यार्थस्यापरिग्रहे जाते ।
33निखिलमपि वाच्यमर्थं त्यक्त्वा वृत्तिस्तदन्वितेऽन्यार्थे ।
34वाच्यार्थमत्यजन्त्या यस्या वृत्तेः प्रवृत्तिरन्यार्थे ।
35जहदजहतीति सा स्याद्या वाच्यार्थैकदेशमपहाय ।
36सोऽयं द्विज इति वाक्यं त्यक्त्वा प्रत्यक्परोक्षदेशाद्यम् ।
37तद्वत्तत्त्वमसीति त्यक्त्वा प्रत्यक्परोक्षतादीनि ।
38इत्थं बोधितमर्थं महता वाक्येन दर्शितैक्येन ।
39प्रायः प्रवर्तकत्वं विधिवचसां लोकवेदयोर्दृष्टम् ।
40विधिरेव न प्रवृत्तिं जनयत्यभिलषितवस्तुबोधोऽपि ।
41ऐक्यपरैः श्रुतिवाक्यैरात्मा शश्वत्प्रकाश्यमानोऽपि ।
42विरहितकाम्यनिषिद्धो विहितानुष्ठाननिर्मलस्वान्तः ।
43कर्मभिरेव न बोधः प्रभवति गुरुणा विना दयानिधिना ।
44वेदोऽनादितया वा यद्वा परमेश्वरप्रणीततया ।
45नापेक्षते यदन्यद्यदपेक्षन्तेऽखिलानि मानानि ।
46मानं प्रबोधयन्तं बोधं मानेन ये बुभुत्सन्ते ।
47वेदोऽनादिरमुष्य व्यञ्जक ईशः स्वयंप्रकाशात्मा ।
48रूपाणामवलोके चक्षुरिवान्यन्न कारणं दृष्टम् ।
49निगमेषु निश्चितार्थं तन्त्रे कश्चिद्यदि प्रकाशयति ।
50अंशद्वयवति निगमे साधयति द्वैतमेव कोऽप्यंशः ।
51अद्वैतमेव सत्यं तस्मिन्द्वैतं न सत्यमध्यस्तम् ।
52आरोपितं यदि स्यादद्वैतं वस्त्ववस्तुनि द्वैते ।
53यद्यारोपणमुभयोस्तद्व्यतिरिक्तस्य कस्यचिदभावात् ।
54प्रत्यक्षाद्यनवगतं श्रुत्या प्रतिपादनीयमद्वैतम् ।
55अद्वैतं सुखरूपं दुःसहदुःखं सदा भवेद्द्वैतम् ।
56निगमगिरा प्रतिपाद्यं वस्तु यदानन्दरूपमद्वैतम् ।
57स्वाभाविकं यदि स्याज्जीवत्वं तस्य विशदविज्ञप्तेः ।
58यद्वदयो रसविद्धं काञ्चनतां याति तद्वदेवासौ ।
59तदिदं भवति न युक्तं गतवति तस्मिंश्चिरेण रसवीर्ये ।
60जीवत्वमपि तथेदं बहुविधसुखदुःखलक्षणोपेतम् ।
61तस्मात्स्वतो यदि स्याज्जीवः सततं स एव जीवः स्यात् ।
62यदि वा परेण साम्यं जीवश्चेद्भजति साधनबलेन ।
63तस्मात्परं स्वकीयं देहं मोहात्मकं च संसारम् ।
64सत्यं ज्ञानमनन्तं प्रकृतं परमात्मरूपमद्वैतम् ।
65अद्वैतबोधकानां निखिलानां निगमवाक्यजालानाम् ।
66यस्मिन्महिरवदुदिते तिमिरवदपयान्ति कर्तृतादीनि ।
67कर्मप्रकरणनिष्ठं ज्ञानं कर्माङ्गमिष्यते प्राज्ञैः ।
68अधिकारिविषयभेदौ कर्मज्ञानात्मकावुभौ काण्डौ ।
69ज्ञानं कर्मणि न स्याज्ज्ञाने कर्मेदमपि तथा न स्यात् ।
70तस्मान्मोहनिवृत्तौ ज्ञानं न सहायमन्यदर्थयते ।
71ज्ञानं तदेवममलं साक्षी विश्वस्य भवति परमात्मा ।
72रज्ज्वादेरुरगाद्यैः संबन्धवदस्य दृश्यसंबन्धः ।
73कर्तृ च कर्म च यस्य स्फुरति ब्रह्मैव तन्न जानाति ।
74कर्तृत्वादिकमेतन्मायाशक्त्या प्रपद्यते निखिलम् ।
75तस्मिन्ब्रह्मणि विदिते विश्वमशेषं भवेदिदं विदितम् ।
76तदिदं कारणमेकं विगतविशेषं विशुद्धचिद्रूपम् ।
77कारणमसदिति केचित्कथयन्त्यसतो भवेन्न कारणता ।
78कारणमसदिति कथयन्वन्ध्यापुत्रेण निर्वहेत्कार्यम् ।
79यस्मान्न सोऽयमसतो वादः संभवति शास्त्रयुक्तिभ्याम् ।
80जगदाकारतयापि प्रथते गुरुशिष्यविग्रहतयापि ।
81सत्यं जगदिति भानं संसृतये स्यादपक्वचित्तानाम् ।
82परिपक्वमानसानां पुरुषवराणां पुरातनैः सुकृतैः ।
83अनवगतकाञ्चनानां भूषणधीरेव भूषणे हैमे ।
84अहमालम्बनसिद्धं कस्य परोक्षं भवेदिदं ब्रह्म ।
85अहमिदमिति च मतिभ्यां सततं व्यवहरति सर्वलोकोऽपि ।
86वपुरिन्द्रियादिविषये याहंबुद्धिर्महत्यसौ भ्रान्तिः ।
87तस्मादशेषसाक्षी परमात्मैवाहमर्थ इत्युचितम् ।
88तस्मात्सर्वशरीरेष्वहमहमित्येव भासते स्पष्टः ।
89गोशब्दार्थो गोत्वं तदपि व्यक्तिः प्रतीयतेऽर्थतया ।
90दग्धृत्वादिकमयसः पावकसङ्गेन भासते यद्वत् ।
91देहेन्द्रियादिदृश्यव्यतिरिक्तं विमलमतुलमद्वैतम् ।
92यद्वत्सुखदुःखानामवयवभेदादनेकता देहे ।
93किमिदं किमस्य रूपं कथमिदमासीदमुष्य को हेतुः ।
94दन्तिनि दारुविकारे दारु तिरोभवति सोऽपि तत्रैव ।
95आत्ममये महति पटे विविधजगच्चित्रमात्मना लिखितम् ।
96चिन्मात्रममलमक्षयमद्वयमानन्दमनुभवारूढम् ।
97व्यवहारस्य दशेयं विद्याविद्येति भेदपरिभाषा ।
98अस्त्यन्यदिति मतं चेत्तदपि ब्रह्मैतदस्तितारूपम् ।
99तत्त्वावबोधशक्त्या सुस्थितया बाधितापि सा माया ।
100एष विशेषो विदुषां पश्यन्तोऽपि प्रपञ्चसंसारम् ।
101किं चिन्त्यं किमचिन्त्यं किं कथनीयं किमप्यकथनीयम् ।
102निखिलं दृश्यविशेषं दृग्रूपत्वेन पश्यतां विदुषाम् ।
103असकृदनुचिन्तितानामव्याहततरनिजोपदेशानाम् ।
104इति बोधितः स गुरुणा शिष्यो हृष्टः प्रणम्य तं पदयोः ।
105अजरोऽहमक्षरोऽहं प्राज्ञोऽहं प्रत्यगात्मबोधोऽहम् ।
106आद्योऽहमात्मभाजामात्मानन्दानुभूतिरसिकोऽहम् ।
107इहपरसुखविमुखोऽहं निजसुखबोधानुभूतिभरितोऽहम् ।
108ईशोऽहमीश्वराणामीर्ष्याद्वेषानुषङ्गरहितोऽहम् ।
109उदयोऽहमेव जगतामुपनिषदुद्यानकृतविहारोऽहम् ।
110ऊर्जस्वलनिजविभवैरूर्ध्वमधस्तिर्यगश्नुवानोऽहम् ।
111ऋषिरहमृष्यगणोऽहं दृष्टिरहं दृश्यमानमहमेव ।
112एकोऽहमेतदीदृशमेवमितिस्फुरितभेदरहितोऽहम् ।
113ऐक्यावभासकोऽहं वाक्यपरिज्ञानपावनमतीनाम् ।
114ओजोऽहमोषधीनामोतप्रोतायमानभुवनोऽहम् ।
115औषधमहमशुभानामौपाधिकधर्मजालरहितोऽहम् ।
116अङ्कुशमहमखिलानां महत्तया मत्तवारणेन्द्राणाम् ।
117अस्तविकल्पमतीनामस्खलदुपदेशगम्यमानोऽहम् ।
118करुणारसभरितोऽहं कबलितकमलासनादिलोकोऽहम् ।
119खानामगोचरोऽहं खातीतोऽहं खपुष्पभवगोऽहम् ।
120गलितद्वैतकथोऽहं देहीभवदखिलमूलहृदयोऽहम् ।
121घनतरविमोहतिमिरप्रकरप्रध्वंसभानुनिकरोऽहम् ।
122चरदचरदात्मकोऽहं चतुरमतिश्लाघनीयचरितोऽहम् ।
123छन्दः सिन्धुनिगूढज्ञानसुखास्वादमोदमानोऽहम् ।
124जलजासनादिगोचरपञ्चमहाभूतमूलभूतोऽहम् ।
125झंकृतिहुंकृतिशिञ्जितबृंहितमुखविविधनादभेदोऽहम् ।
126ज्ञानमहं ज्ञेयमहं ज्ञाताहं ज्ञानसाधनगणोऽहम् ।
127तत्त्वातीतपदोऽहं तनुरहमस्मीति भावरहितोऽहम् ।
128दैवतदैत्यनिशाचरमानवतिर्यङ्महीधरादिरहम् ।
129धर्माधर्ममयोऽहं धर्माधर्मादिबन्धरहितोऽहम् ।
130नामादिविरहितोऽहं नरकस्वर्गापवर्गरहितोऽहम् ।
131परजीवभेदबाधकपरमार्थज्ञानशुद्धचित्तोऽहम् ।
132फणधरभूधरवारणविग्रहविधृतप्रपञ्चसारोऽहम् ।
133बद्धो भवामि नाहं बन्धान्मुक्तस्तथापि नैवाहम् ।
134भक्तिरहं भजनमहं भुक्तिरहं भुक्तिमुक्तिरहमेव ।
135मान्योऽहमस्मि महतां मन्दमतीनाममाननीयोऽहम् ।
136यजनयजमानयाजकयागमयोऽहं यमादिरहितोऽहम् ।
137रक्षाविधानशिक्षावीक्षितलीलावलोकमहिमाहम् ।
138लक्षणलक्ष्यमयोऽहं लाक्षणिकोऽहं लयादिरहितोऽहम् ।
139वर्णाश्रमरहितोऽहं वर्णमयोऽहं वरेण्यगण्योऽहम् ।
140शमदमविरहितमनसां शास्त्रशतैरप्यगम्यमानोऽहम् ।
141षड्भावविरहितोऽहं षड्गुणरहितोऽहमहितरहितोऽहम् ।
142संवित्सुखात्मकोऽहं समाधिसंकल्पकल्पवृक्षोऽहम् ।
143हव्यमहं कव्यमहं हेयोपादेयभावशून्योऽहम् ।
144क्षालितकलुषभयोऽहं क्षपितभवक्लेशजालहृदयोऽहम् ।
145बहुभिः किमेभिरुक्तैरहमेवेदं चराचरं विश्वम् ।
146शरणं न भवति जननी न पिता न सुता न सोदरा नान्ये ।
147आस्ते देशिकचरणं निरवधिरास्ते तदीक्षणे करुणा ।
148कारुण्यसारसान्द्राः काङ्क्षितवरदानकल्पकविशेषाः ।
149कबलितचञ्चलचेतोगुरुतरमण्डूकजातपरितोषा ।
150मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् ।
151गुरुकरुणयैव नावा प्राक्तनभाग्यानुकूलमारुतया ।
152सति तमसि मोहरूपे विश्वमपश्यं तदेतदित्यखिलम् ।
153इत्यात्मबोधलाभं मुहुरनुचिन्त्य प्रमोदमानेन ।
154मोहान्धकारहरणं संसारोद्वेलसागरोत्तरणम् ।

