5 shlokas
- 1
अज्ञानम् इति तत्राद्यं चैतन्यस्फाररूपिणि
ajñānam iti tatrādyaṃ caitanyasphārarūpiṇi
- 2
आत्मन्य् अनात्मताज्ञानं ज्ञानं पुनर् अनात्मनि
ātmany anātmatājñānaṃ jñānaṃ punar anātmani
- 3
देहादाव् आत्ममानित्वं द्वयम् अप्य् एतद् आणवम्
dehādāv ātmamānitvaṃ dvayam apy etad āṇavam
- 4
मलं स्वकल्पितं स्वस्मिन्बन्धः स्वेच्छाविभावितः
malaṃ svakalpitaṃ svasminbandhaḥ svecchāvibhāvitaḥ
- 5
किम् आणवमलात्मैव बन्धो ऽयं नेत्य् उदीर्यते
kim āṇavamalātmaiva bandho 'yaṃ nety udīryate

