৮৪ টি শ্লোক
अहमानन्दसत्यादिलक्षणः केवलः शिवः ।
2अक्षिदोषाद्यथैकोऽपि द्वयवद्भाति चन्द्रमाः ।
3अक्षिदोषविहीनानामेक एव यथा शशी ।
4द्वित्वं भात्यक्षिदोषेण चन्द्रे स्वे मायया जगत् ।
5आत्मनः कार्यमाकाशो विनात्मानं न संभवेत् ।
6कार्यभूतो यथाकाश एक एव न हि द्विधा ।
7एकोऽपि द्वयवद्भाति यथाकाश उपाधितः ।
8कारणोपाधिचैतन्यं कार्यसंस्थाच्चितोऽधिकम् ।
9निर्गतोपाधिराकाश एक एव यथा भवेत् ।
10आकाशादन्य आकाश आकाशस्य यथा न हि ।
11मेघयोगाद्यथा नीरं करकाकारतामियात् ।
12वर्षोपल इवाभाति नीरमेवाभ्रयोगतः ।
13आत्मैवायं तथा भाति मायायोगात्प्रपञ्चवत् ।
14जलादन्य इवाभाति जलोत्थो बुद्बुदो यथा ।
15यथा बुद्बुदनाशेन जलनाशो न कर्हिचित् ।
16अहिनिर्ल्वयनीजातः शुच्यादिर्नाहिमाप्नुयात् ।
17त्यक्तां त्वचमहिर्यद्वदात्मत्वेन न मन्यते ।
18अहिनिर्ल्वयनीनाशादहेर्नाशो यथा न हि ।
19तक्रादिलवणोपेतमज्ञैर्लवणवद्यथा ।
20अयःकाष्ठादिकं यद्वद्वह्निवद्वह्नियोगतः ।
21दाहको नैव दाह्यं स्याद्दाह्यं तद्वन्न दाहकः ।
22प्रमेयादित्रयं सार्थं भानुना घटकुड्यवत् ।
23भानुस्फुरणतो यद्वत्स्फुरतीव घटादिकम् ।
24पिष्टादिगुलसंपर्काद्गुलवत्प्रीतिमान्यथा ।
25घटनीरान्नपिष्टानामुष्णत्वं वह्नियोगतः ।
26भूतभौतिकदेहानां स्फूर्तिता स्वात्मयोगतः ।
27नानाविधेषु कुम्भेषु वसत्येकं नभो यथा ।
28नानाविधत्वं कुम्भानां न यात्येव यथा नभः ।
29यथा घटेषु नष्टेषु घटाकाशो न नश्यति ।
30उत्तमादीनि पुष्पाणि वर्तन्ते सूत्रके यथा ।
31यथा न संस्पृशेत्सूत्रं पुष्पाणामुत्तमादिता ।
32पुष्पेषु तेषु नष्टेषु यद्वत्सूत्रं न नश्यति ।
33पर्यङ्करज्जुरन्ध्रेषु नानेवैकापि सूर्यभा ।
34रज्जुरन्ध्रस्थदोषादि सूर्यभां न स्पृशेद्यथा ।
35तद्रज्जुरन्ध्रनाशेषु नैव नश्यति सूर्यभा ।
36देहो नाहं प्रदृश्यत्वाद्भौतिकत्वान्न चेन्द्रियम् ।
37बुद्धिर्नाहं विकारित्वात्तमो नाहं जडत्वतः ।
38देहेन्द्रियप्राणमनोबुद्ध्यज्ञानानि भासयन् ।
39सर्वं जगदिदं नाहं विषयत्वादिदंधियः ।
40सुप्तौ यथा निर्विकारस्तथावस्थाद्वयेऽपि च ।
41उपाधिनीलरक्ताद्यैः स्फटिको नैव लिप्यते ।
42फालेन भ्राम्यमाणेन भ्रमतीव यथा मही ।
43देहत्रयमिदं नित्यमात्मत्वेनाभिमन्यते ।
44निद्रादेहजदुःखादि जाग्रद्देहं न संस्पृशेत् ।
45जाग्रद्देहवदाभाति निद्रादेहस्तु निद्रया ।
46तथायमात्मवद्भाति जाग्रद्देहस्तु जागरात् ।
47हित्वायं स्वाप्निकं देहं जाग्रद्देहमपेक्षते ।
48स्वप्नभोगे यथैवेच्छा प्रबुद्धस्य न विद्यते ।
49भोक्त्रा बहिर्यथा भोग्यः सर्पो दृषदि कल्पितः ।
50ज्ञस्य नास्त्येव संसारो यद्वदज्ञस्य कर्मिणः ।
51सैन्धवस्य घनो यद्वज्जलयोगाज्जलं भवेत् ।
52तोयाश्रयेषु सर्वेषु भानुरेकोऽप्यनेकवत् ।
53भानोरन्य इवाभाति जलभानुर्जले यथा ।
54बिम्बं विना यथा नीरे प्रतिबिम्बो भवेत्कथम् ।
55प्रतिबिम्बचलत्वाद्या यथा बिम्बस्य कर्हिचित् ।
56जले शैत्यादिकं यद्वज्जलभानुं न संस्पृशेत् ।
57बुद्धेः कर्तृत्वभोक्तृत्वदुःखित्वाद्यैस्तु संयुतः ।
58शरावस्थोदके नष्टे तत्स्थो भानुर्विनष्टवत् ।
59जलस्थार्कं जलं चोर्मिं भासयन्भाति भास्करः ।
60मेघावभासको भानुर्मेघच्छन्नोऽवभासते ।
61भास्यं मेघादिकं भानुर्भासयन्प्रतिभासते ।
62सर्वप्रकाशको भानुः प्रकाश्यैर्नैव दूष्यते ।
63मुकुरस्थं मुखं यद्वन्मुखवत्प्रथते मृषा ।
64मुकुरस्थस्य नाशेन मुखनाशो भवेत्कथम् ।
65ताम्रकल्पितदेवादिस्ताम्रादन्य इव स्फुरेत् ।
66ईशजीवात्मवद्भाति यथैकमपि ताम्रकम् ।
67यथेश्वरादिनाशेन ताम्रनाशो न विद्यते ।
68अध्यस्तो रज्जुसर्पोऽयं सत्यवद्रज्जुसत्तया ।
69अध्यस्ताहेरभावेन रज्जुरेवावशिष्यते ।
70स्फटिके रक्तता यद्वदुपाधेर्नीलताम्बरे ।
71स्फटिके रक्तता मिथ्या मृषा खे नीलता यथा
72जीवेश्वरादिभावेन भेदं पश्यति मूढधीः ।
73लिङ्गस्य धारणादेव शिवोऽयं जीवतां व्रजेत् ।
74शिव एव सदा जीवो जीव एव सदा शिवः ।
75क्षीरयोगाद्यथा नीरं क्षीरवद्दृश्यते मृषा ।
76नीरात्क्षीरं पृथक्कृत्य हंसो भवति नान्यथा ।
77क्षीरनीरविवेकज्ञो हंस एव न चेतरः ।
78अध्यस्तचोरजः स्थाणोर्विकारः स्यान्न हि क्वचित् ।
79ज्ञाते स्थाणौ कुतश्चोरचोराभावे भयं कुतः ।
80गुणवृत्तित्रयं भाति परस्परविलक्षणम् ।
81देहत्रयमिदं भाति यस्मिन्ब्रह्मणि सत्यवत् ।
82जाग्रदादित्रयं यस्मिन्प्रत्यगात्मनि सत्यवत् ।
83विश्वादिकत्रयं यस्मिन्परमात्मनि सत्यवत् ।
84विराडादित्रयं भाति यस्मिन्साक्षिणि सत्यवत् ।

