Yamunashtakam
Adi Shankaracharya৮ টা শ্লোক
मुरारिकायकालिमाललामवारिधारिणी
मलापहारिवारिपूरिभूरिमण्डितामृता
लसत्तरङ्गसङ्गधूतभूतजातपातका
विहाररासखेदभेदधीरतीरमारुता
तरङ्गसङ्गसैकतान्तरातितं सदासिता
जलान्तकेलिकारिचारुराधिकाङ्गरागिणी
जलच्युताच्युताङ्गरागलम्पटालिशालिनी
सदैव नन्दिनन्दकेलिशालिकुजमञ्जुला