13 شلوكا
1
पुरस्ताद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः ।
2ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः ।
3तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः ।
4ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च ।
5यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च ।
6सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च ।
7सूर्यमण्डलमाभाति ह्यकारश्चन्द्रमध्यगः ।
8मकारश्चाग्निसंकाशो विधूमो विद्युतोपमः ।
9शिखा च दीपसंकाशा यस्मिन्नु परिवर्तते ।
10पद्मसूत्रनिभा सूक्ष्मा शिखाभा दृश्यते परा ।
11द्विसप्ततिसहस्राणि नाडिभिस्त्वा तु मूर्धनि ।
12कांस्यघण्टानिनादः स्याद्यदा लिप्यति शान्तये ।
13यस्मिन् स लीयते शब्दस्तत्परं ब्रह्म गीयते ।

